भारतकोश
कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

पृष्ठ 84, कुल 172 में से

संदर्भ में पढ़ें
पृष्ठ 84

७६ कर्पूरमञ्जरी विचक्षणा—एस कुरवअतरू । ( कर्पूरमञ्जरी तमालिङ्गति ।) राजा— णवकुरवअरुक्खो कुंभथोरत्थणीए रहसविरइदेणं णिब्भरालिंगणेणं । तह कुसुमसमिद्धिं लंभिदो सुंदरीए जह भसलउलाणं पेत्थ जत्ता समत्ता ॥ ४४ ॥ विदूषकः—भो, पेक्ख पेक्ख महेंदजालं । जेण,— बालो वि कुरअवतरू तरुणीए गाढमुवगूढो । सहस त्ति कुसुमणियरं मंअणसरे विअ समुग्गिरइ ॥ ४५ ॥ विचक्षणा— एष कुरवकतरुः । राजा— नवकुरवकवृक्षः कुम्भस्थूलस्तन्या रभसविरचितेन निर्भरमालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत् । 'अथ च तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यद्वा,—असमाप्तेति नञ्प्रश्लेषः । सप्तेति विषयसप्तमी । तथा च तद्विषये यात्रा वृत्तान्तरात्प्रागमनं तन्न समाप्त- मित्यर्थ । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो व्यङ्ग्यते । अत्रापि छेकानुप्रा- सरूपकोपमासंकरा अलंकाराः । विदूषकः— भोः, प्रेक्षस्व प्रेक्षस्व महेन्द्रजालम् । येन,— बालोऽपि कुरवकतरुस्तरुण्या गाढमुपगूढः । झेति कुसुमनिकरं मदनशरमिव समुद्गिरति ॥

  • इति टीकाकृतः पाठः । १ 'मदनमरे' इति टीकाकारः ।