भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 10, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 10

॥ श्रीगणेशाय नमः ॥ ॥ काशिका ॥ वृत्तौ भाष्ये तथा धातुनामपारायणादिषु । विप्रकीर्णस्य तन्त्रस्य क्रियते सारसंग्रहः ॥ १ ॥ इष्ट्युपसंख्यानवती शुद्धगणा विवृतगूढसूत्रार्था । व्युत्पन्नरूपसिद्धिर्वृत्तिरियं काशिका नाम ॥ २ ॥ व्याकरणस्य शरीरं परिनिष्ठितशास्त्रकार्य*मेतावत् । शिष्टः परिकरबन्धः क्रियते ऽस्य ग्रन्थकारेण ॥ ३ ॥ ॥ अथ शब्दानुशासनम् ॥ केषां शब्दानाम् । लौकिकानां वैदिकानां च । कथमनुशासनम् । प्रकृ- त्यादिविभागकल्पनया सामान्यविशेषवता लक्षणेन । अथ किमर्थो वर्णानामुप- देशः । प्रत्याहारार्थः । प्रत्याहारो लाघवेन शास्त्रप्रवृत्त्यर्थः ॥ अ इ उ ण् ॥ १ ॥ अ इ उ इत्यनेन क्रमेण वर्णानुपदिश्यान्ते णकारमितं करोति प्रत्याहा- रार्थम् । तस्य ग्रहणं भवत्येकेन उरण् रपर इत्यकारेण । ह्रस्वमवर्णं प्रयोगे संवृ- तम् । दीर्घप्लुतयोस्तु विवृतत्वम् । तेषां सावर्ण्यप्रसिद्ध्यर्थमकार इह शास्त्रे विवृतः प्रतिज्ञायते । तस्य प्रयोगार्थम् अ अ इति शास्त्रान्ते प्रत्यापत्तिः करिष्यते ॥ ऋ ऌ क् ॥ २ ॥ ऋ ऌ इत्येतौ वर्णावुपदिश्य पूर्वाश्चान्ते ककारमितं करोति प्रत्याहा- रार्थम् । तस्य ग्रहणं भवति त्रिभिः । अकः सवर्णे दीर्घ इत्यकारेण । इको गुणवृद्धी इतीकारेण । उगितश्चेत्युकारेण । अकारादयो वर्णाः प्रचुरप्रयोगा वि- द्यन्ते तेषां सुज्ञानमुपदेशे प्रयोजनम् । ऌकारस्तु कॢपेरेव प्रयुज्यते कॢपेरप्य- पूर्वत्रासिद्धमिति लत्वमसिद्धम् । तस्यासिद्धत्वाद् ऋकारस्यैव कार्याणि भवि- ष्यन्तीति किमर्थम् ऌकार उपदिश्यते । ऌत्वविधानादीनि पराण्यष्टौ कार्याणि तानि ऌकारे यथा स्युरिति । कानि पुनस्तानि । कॢप्तः स्वरितो ल्लृवेचेदम् । कॢप्तशिखः प्रकॢप्तवानिति । यच्चाशक्तिजमसाधुशब्दरूपं तदनुकरणस्यापि


  • 'कृत्य' पाठान्तरम् ।