काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 127, कुल 828 में से
संदर्भ में पढ़ें१२० ॥ काशिका ॥ २ ॥ ३ ॥ प्रेष्य इति इष्यतेर्दैवादिकस्य लोट्मध्यमपुरुषस्यैकवचनं, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते । प्रेष्यब्रुवोर्हविषः कर्मणः षष्ठी विभक्तिर्भवति देव- तासंप्रदाने सति । अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य । अग्नये छागस्य हविषो वपाया मेदसोनुब्रू३हि । प्रेष्यब्रुवोरिति किम् । अग्नये छागं हविर्वपां मेदो जुहुधि । हविष इति किम् । अग्नये गोमयान् प्रेष्य । देवतासंप्रदान इति किम् । माणवकाय पुरोडाशं प्रेष्य ॥ हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः ॥ * ॥ इन्द्रा- ग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रे३ष्य ॥ चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ छन्दसि विषये चतुर्थ्यर्थे षष्ठी विभक्तिर्भवति * बहुलम् । पुरुषमृगश्चन्द्र- मसः । पुरुषमृगश्चन्द्रमसे । गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् । ते वनस्पति- भ्यः । बहुलग्रहणं किम् । कृष्णो रात्र्यै, हिमवतो हस्ती ॥ षष्ठ्यर्थे चतुर्थी वक्त- व्या ॥ * ॥ या खर्वेण पिबति तस्यै खर्वो जायते । या दतो धावति तस्यै श्याव- दन् । या नखानि कृन्तति तस्यै कुनखः । या ऽऽङ्क्ते तस्यै काणः । या ऽभ्यङ्क्ते तस्यै दुश्चर्मा । या केशान् प्रलिखति तस्यै खलतिः । अहल्यायै जारः ॥ यजेश्च करणे ॥ ६३ ॥ यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठी विभक्तिर्भवति । घृतस्य यजते । घृतेन यजते । सोमस्य यजते । सोमेन यजते † ॥ कृत्वोऽर्थप्रयोगे काले ऽधिकरणे ॥ ६४ ॥ छन्दसि बहुलमिति निवृत्तम् । कृत्वोऽर्थानां प्रत्ययानां प्रयोगे काले ऽधि- करणे षष्ठी विभक्तिर्भवति । पञ्चकृत्वो ऽह्नो भुङ्क्ते । द्विरह्नो ऽधीते । कृत्वोऽर्थ- ह्वयं किम् । अह्नि शेते । रात्रौ शेते । प्रयोगग्रहणं किम् । अहनि भुक्तम् । गम्यते हि द्विस्त्रिश्चतुरिति, न त्वप्रयुज्यमाने भवति । कालग्रहणं किम् । द्विः कांस्यपा- त्र्यां भुङ्क्ते । अधिकरणइति किम् । द्विरह्नो भुङ्क्ते । शेषइत्येव । द्विरहन्यधीते ॥ कर्तृकर्मणोः कृति ॥ ६५ ॥ कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति । भवतः शायिका । भवत आसिका । कर्मणि । अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्त्ता । कर्तृक- र्मणोरिति किम् । शरेण भेत्ता । कृतीति किम् । तद्धितप्रयोगे मा भूत् । कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । शेषइति निवृत्तं, पुनः कर्मग्रहणात् । इतरथा हि कर्तरि च कृतीति ब्रूयात् ॥
- अत्र ‘देवतासंप्रदाने सति’ इत्याधिकं क्व चित् । † अत्र ‘कारकेइति किम् । अन्यत्र मा भूत्’ इत्याधिकं क्व चित् ।