काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 129, कुल 828 में से
संदर्भ में पढ़ें[Header] १२२ ॥ काशिका ॥ २ ॥ ३ ॥ चाहुः ॥ उकप्रतिषेधे कमेर्भाषायां प्रतिषेधः ॥ * ॥ दास्याः कामुकः । अव्यय । काष्ठं भित्त्वा । ओदनं भुक्त्वा ॥ अव्ययप्रतिषेधे तोसुन्कसुनोःप्रतिषेधः ॥ * ॥ पुरा सूर्यस्योदेतोराधेयः । पुरा क्रूरस्य विसृपो विरप्शिन् । निष्ठा । ओदनं भुक्त- वान् । देवदत्तेन कृतम् । खलर्थ । ईषत्करः कटो भवता । दुष्पानः सोमो भवता । तृन्निति प्रत्याहारग्रहणं, लटः शतृशानचावित्यतआरभ्य आ तृनो नकारात् । तेन शानज्वानशेशतृवतृनामपि प्रतिषेधो भवति । सोमं पवमानः । नट माघ्नानः । * अधीयान् पारायणम् । कर्ता कटान् । वदिता जनापवादान् ॥ द्विषः शतुर्वा- वचनम् ॥ * ॥ चौरं द्विषन् , चौरस्य द्विषन् ॥ अकेनोर्भविष्यदाधमर्ण्ययोः ॥ ७० ॥ अकस्य भविष्यति काले विहितस्येनेस्तु भविष्यति चाधमर्ण्ये च विहि- तस्य प्रयोगे षष्ठी विभक्तिर्न भवति । कटं कारको व्रजति । ओदनं भोजको व्रजति । इनः खल्वपि । ग्रामं गमी । ग्रामं गामी । आधमर्ण्ये । शतं दायी । सहस्रं दायी । भविष्यदाधमर्ण्ययोरिति किम् । यत्राणां लावकः । सक्तूनां पायकः । अवश्यं करो कटस्य । इह कस्मान्न भवति वर्षशतस्य पूरकः, पुत्र- पौत्राणां दर्शक इति । भविष्यदधिकारे विहितस्याकस्येदं ग्रहणम् ॥ कृत्यानां कर्तरि वा ॥ ७१ ॥ कर्तृकर्मणोः कृतीति नित्यं षष्ठी प्राप्ता कर्त्तरि विकल्प्यते । कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि * । भवता कटः कर्तव्यः । भवतः कटः कर्तव्यः । कर्त्तरीति किम् । गेयो माणवकः साम्नाम् ॥ उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः ॥ * ॥ द्रष्टव्या ग्रामं शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तेन ॥ तुल्यार्थैरतुलोपमाभ्यां तृतीया ऽन्यतरस्याम् ॥ ७२ ॥ तुल्यार्थैः शब्दैर्योगे तृतीया विभक्तिर्भवत्यन्यतरस्यां, पक्षे षष्ठी च, तुलोपमाशब्दौ वर्जयित्वा । शेषे विषये तृतीयाविधानात् तया मुक्ते षष्ठ्येव भवति । तुल्यो देवदत्तेन । तुल्यो देवदत्तस्य । सदृशो देवदत्तेन । सदृशो देव- दत्तस्य । अतुलोपमाभ्यामिति किम् । तुला देवदत्तस्य नास्ति । उपमा कृष्णस्य न विद्यते । वेति वर्तमाने ऽन्यतरस्यांग्रहणमुत्तरसूत्रे तस्य चकारेणा- नुकर्षणार्थम् । इतरथा हि तृतीयाऽनुकृष्येत ॥ चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ॥ ७३ ॥ आशिषि गम्यमानायाम् आयुष्य मद्र भद्र कुशल सुख अर्थ हित इत्येतै
- 'न कर्मणी'ति कुत्र चित्रभ्रष्टः ।