काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 133, कुल 828 में से
संदर्भ में पढ़ें१२६ ॥ काशिका ॥ २ ॥ ४ ॥ द्वासम् । कुटीकुटम् । भागवतीभागवतम् । गवाश्वप्रभृतिषु यथोच्चारितं द्वन्द्व- वृत्तं, रूपान्तरे तु नायं विधिर्भवति । गोश्वम् । गोश्वौ । पशुद्वन्द्वविभाषैव भवति ॥ विभाषावृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वा- पराधरोत्तराणाम् ॥ १२ ॥ वृक्ष मृग तृण धान्य व्यञ्जन पशु शकुनि अश्ववडव पूर्वापर अधरोत्तर इत्येतेषां द्वन्द्वो विभाषैकवद्भवति । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरुपृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । तित्तिरिकपिज्जलम् । तित्तिरिकपिञ्जलाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ बहु- प्रकृतिः फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानाम् ॥ * ॥ एषां बहुप्रकृ- तिरेव द्वन्द्व एकवद्भवति, न द्विप्रकृतिः । बदरामलके । रथिकाश्वारोहौ। प्लक्षन्य- ग्रोधौ । रुरुपृषतौ । हंसचक्रवाकौ । यूकालिक्षे । व्रीहियवौ । कुशकाशौ ॥ विप्रतिषिद्धं चानधिकरणवाचि ॥ १३ ॥ परस्परविरुद्धं विप्रतिषिद्धम् । विप्रतिषिद्धार्थानां शब्दानामनधिकरण- वाचिनामद्रव्यवाचिनां द्वन्द्व एकवद्भवति । विभाषानुकर्षणार्थश्चकारः । शीतो- ष्णम् । शीतोष्णे । सुखदुःखम् । सुखदुःखे । जीवितमरणम् । जीवितमरणे । विप्र- तिषिद्धमिति किम् । कामक्रोधौ । अनधिकरणवाचीति किम् । शीतोष्णे उदके॥ न दधिपयआदीनि ॥ १४ ॥ यथायथमेकवद्भावे प्राप्ते प्रतिषेध आरभ्यते । दधिपयआदीनि शब्दरूपा- णि नैकवद्भवन्ति। दधिपयसी । सर्पिर्मधुनी । मधुपर्पिषी । ब्रह्मप्रजापती । शिव- वैश्रवणौ । स्कन्दविशाखौ । परिव्राट्कौशिकौ * । प्रवर्ग्योपसदौ । शुक्लकृष्णौ । इध्माबर्हिषी । निपातनाद्दीर्घः । दीक्षातपसी । श्रद्धातपसी । मेधातपसी । अध्य- यनतपसी । उलूखलमुसले । ऋगवसाने । ऋक्सामे । वाङ्मनसे ॥ अधिकरणैतावत्त्वे च ॥ १५ ॥ नेति वर्तते । अधिकरणं वर्त्तिपदार्थः, स हि समासस्यार्थस्याधारः, तस्यैतावत्त्वे परिमाणे गम्यमाने द्वन्द्वो नैकवद्भवति । यथायथमेकवद्भावः प्राप्तः प्रतिषिध्यते । दश दन्तोष्ठाः । दश मार्दङ्गिकपाणविकाः ॥ विभाषा समीपे ॥ १६ ॥ अधिकरणैतावत्त्वस्य समीपे विभाषा द्वन्द्व एकवद्भवति । उपदशं दन्तो- ष्ठम् । उपदशा दन्तोष्ठाः । उपदशं मार्दङ्गिकपाणविकम् । उपदशा मार्दङ्गि-
- परिव्राजककौशिकौ । इति पा० २ ।