काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 136, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ । ४ ॥ १२९ पिप्पल्याः, धनुःपिप्पली। धनुःकोशातकी। धनुर्नखरजनी॥ द्विगुप्राप्तापन्नालं- पूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ॥ * ॥ द्विगुः। पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकां, प्राप्तजीविकः। आपन्नो जीविकाम्, आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमास। निष्क्रान्तः कौ- शाम्ब्याः, निष्कौशाम्बिः ॥ पूर्ववदश्ववडवौ ॥ २७ ॥ अश्ववडवयोर्र्विभाषैकवद्भाव उक्तस्तत्रैकवद्भावादन्यत्र परवल्लिङ्गतायां प्राप्तायामिदमारभ्यते। अश्ववडवयोः पूर्ववल्लिङ्गं भवति। अश्वश्च वडवा चा- श्ववडवौ। अर्थातिदेशश्चायं न निपातनं, तत्र द्विवचनमतन्त्रं, वचनान्तरेपि पूर्व- वल्लिङ्गता भवति। अश्ववडवान्, अश्ववडवैरिति ॥ हेमन्तशिशिरावहोरात्रे च च्छन्दसि ॥ २८ ॥ पूर्ववदिति वर्तते। हेमन्तशिशिरौ अहोरात्रे इत्येतयोश्छन्दसि विषये पूर्ववल्लिङ्गं भवति। हेमन्तशिशिरावृतूनां प्रीणामि। अहोरात्रे इदं ब्रूमः। पर- वल्लिङ्गतापवादो योगः। अर्थातिदेशश्चायं न निपातनं, तेन द्विवचनमतन्त्रं, वचनान्तरेपि पूर्ववल्लिङ्गता भवति। पूर्वपक्षाश्चितयः, अपरपक्षाः पुरीषम्, अहो- रात्राण्योष्टकाः। छन्दसीति किम्। दुःखे हेमन्तशिशिरे। अहोरात्राविमौ पुण्यौ। छन्दसि लिङ्गव्यत्यय उक्तस्तस्यैवायं प्रपञ्चः ॥ रात्राह्नाहाः पुंसि ॥ २९ ॥ कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाव्यन्ते। पर- वल्लिङ्गतायां स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। षडू- रात्रः। पूर्वाह्णः। अपराह्नः। मध्याह्नः। द्व्यहः। त्र्यहः ॥ अनुवाकादयः पुंसीति वक्तव्यम् ॥ * ॥ अनुवाकः। शंयुवाकः। सूक्तवाकः ॥ अपथं नपुंसकम् ॥ ३० ॥ अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते मूढः। इह कस्मान्न भवति, अपथो देशो, ऽपथा नगरी। तत्पुरुष इति वर्तते ॥ अर्धर्चाः पुंसि च ॥ ३१ ॥ अर्धर्चादयः शब्दाः पुंसि नपुंसके च भाव्यन्ते। अर्धर्चः। अर्धर्चम्। गोमयः। गोमयम्। शब्दरूपाश्रया चेयं द्विलिङ्गता न विवक्षाभेदेनापि व्यव- तिष्ठते। यथा पद्मशङ्खशब्दौ निधिवचनौ पुंलिङ्गौ। जलजे उभयलिङ्गौ। भूत- शब्दः पिशाचे उभयलिङ्गः। क्रियाशब्दस्याभिधेयवल्लिङ्गम्। सैन्धवशब्दा लवणे उभयलिङ्गः। योनिशब्दस्याभिधेयवल्लिङ्गम्। सारशब्द उत्कर्षे पुंलिङ्गः न्यायाद- ६