काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 146, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ २ । ४ ॥ १९६ उपक इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु लुग्भवति अन्यतरस्यां द्वन्द्वे चाद्वन्द्वे च । अद्वन्द्वग्रहणं द्वन्द्वाधिकारनिवृत्त्यर्थम् । एतेषां च मध्ये ये द्वन्द्वास्तिक्कितवादिषु पठ्यन्ते । उपकलमकाः । भ्रष्टककपिष्ठलाः । कृष्णाजि- नग्ल्यासुन्दराः । इति । तेषां पूर्वेणैव नित्यमेव लुग्भवति । अद्वन्द्वे त्वनेन वि- कल्पः । उपकाः । औपकायनाः । लमकाः । लामकायनाः । भ्रष्टकाः । भ्राष्ट्र- कयः । कपिष्ठलाः । कापिष्ठलयः । कृष्णाजिनाः । कार्ष्णाजिनयः । कृष्णासु- न्दराः । कार्ष्णासुन्दरय इति । परिशिष्टानां च द्वन्द्वे ऽद्वन्द्वे च विकल्प इति । यक्षदारक । मयदार्थक । गडुक । सुपर्य्यक । सुपिष्ट । मयूरकर्ण । खारीजङ्घ । शलाबल । पतञ्जल । कतेरणि । कुषीतक । काशकृत्स्न । निदाघ । कलशी- कण्ठ । दामकण्ठ । कृष्णपिङ्गल । कर्णक । पर्णक । जटिलक । बधिरक । जन्तुक । अनुलोम । कार्मुपिङ्गलक । प्रतिलोम । प्रतान । अनभिहित * ॥ आगस्त्यकौण्डिन्योरगस्तिकुण्डिनच् ॥ ७० ॥ आगस्त्यकौण्डिन्ययोरणो यञश्च बहुषु लुग्भवति, परिशिष्टस्य च प्रकृ- तिभागस्य यथासंख्यमगस्ति कुण्डिनच् इत्येतावादेशौ भवतः । अगस्तयः । कुण्डिनाः । चकारः स्वरार्थः । मध्योदात्तो हि कुण्डिनशब्दस्तदादेशोपि तथा स्यात् । अगस्त्यशब्दादृष्यण् । कुण्डिनिशब्दाद्गर्गादित्वाद्यञ् । तयोर्गोत्रे लुग- चीति लुकि प्रतिषिद्धे आगस्तीयाश्छात्रा इति वृद्धलक्षणश्छो भवति । कौण्डिन्ये स्त्वेव भवितव्यं कण्वादिभ्यो गोत्रइति, तत्र विशेषो नास्ति। कौण्डिनाश्छात्राः ॥ सुपो धातुप्रातिपदिकयोः ॥ ७१ ॥ सुपो विभक्तेर्धातुसंज्ञायाः प्रातिपदिकसंज्ञायाश्च लुग्भवति । तदन्तसं- ज्ञास्तद्ग्रहणेन गृह्यन्ते । धातोस्तावत् । पुत्रीयति । घटीयति । प्रातिपदिकस्य । कष्टश्रितः । राजपुरुषः । धातुप्रातिपदिकयोरिति किम् । वृक्षः । प्लक्षः ॥ अदिप्रभृतिभ्यः शपः ॥ ७२ ॥ अदिप्रभृतिभ्य उत्तरस्य शपो लुग्भवति । अत्ति । हन्ति । द्वेष्टि ॥ बहुलं छन्दसि ॥ ७३ ॥ छन्दसि विषये शपो बहुलं लुग्भवति । अदिप्रभृतिभ्य उत्तरेषां च भवत्यपि । वृत्रं हनति । बर्हिः शधते । चान्येभ्यश्च भवति । चायं वो देवाः ॥ यङो ऽचि च ॥ ७४ ॥
- यक्षदारक । उदङ्क । शुश्रावृक्ष । चक्रमञ्च । पतञ्जल । अनुपद । चयजग्ध । कम्बल । वेलाण्ड । कमण्डल । पिच्छल । मयूरकर्ण । मंडाय । वहामन्त्र । डोमकण्ठ । इते पुस्तकान्तरे ऽधिकः ॥