काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 155, कुल 828 में से
संदर्भ में पढ़ें१४८ ॥ काशिका ॥ ३ ॥ १ ॥ कण्ड्वादिभ्यो यक् ॥ २७ ॥ कण्डूञ् इत्येवमादिभ्यो यक् प्रत्ययो भवति । द्विविधाः कण्ड्वादयो धा- तवः प्रातिपदिकानि च । तत्र धात्वधिकाराद्धातोर्य एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः । तथा च गुणप्रतिषेधार्थः ककारोऽनुबध्यते । धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः ॥ कण्डूञ्, कण्डूयति । कण्डूयते । ङित्त्वात्कर्त्रभिप्राये क्रियाफल इत्या- त्मनेपदम् । कण्डूञ् । मन्तु । ह्णीञ् । वल्गु । अस्र । मनस् । महीङ् । लेट् । लोट् । इरस् । दूरञ् । दरञ् । दुवस् । मेधा । कुषुभ । मगध । तन्तस् । पम्पम् । सुख । दुःख । सपर । अर । भिषज् । भिष्णाञ् । इषुध । चरण । चुरण । भुरण । तुरण । भुरण्य । गद्गद । एला । केला । खेला । लिट् । लोट् * । गुपूधूपविच्छिपणिपनिभ्य आयः ॥ २८ ॥ गुपू रक्षणे, धूप संतापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च, इत्येतेभ्यो धातुभ्य आयप्रत्ययो भवति । गोपायति । धूपायति । विच्छायति । पनायति । पनायति । स्तुत्यर्थेन पणिना साहचर्यात्तदर्थः पणिः प्रत्ययमुत्पा- दयति न व्यवहारार्थः । शतस्य पणते । सहस्रस्य पणते । अनुबन्धश्च केवले चरितार्थस्तेनायप्रत्ययान्तादात्मनेपदं भवति ॥ ऋतेरीयङ् ॥ २९ ॥ ऋतिः सौत्रो धातुर्घृणायां वर्तते तत ईयङ् प्रत्ययो भवति । ङकार आत्मनेपदार्थः । ऋतीयते । ऋतीयेते । ऋतीयन्ते । ऋतेश्छदिति सिद्धे ईयङ्- वचनं ज्ञापनार्थं धातुविहितानां प्रत्ययानामायवादयो न भवन्तीति ॥ कमेर्णिङ् ॥ ३० ॥ कमेर्द्धातोर्णिङ् प्रत्ययो भवति । णकारो वृद्ध्यर्थः । ङकार आत्मनेप- दार्थः । कामयते । कामयेते । कामयन्ते ॥ आयादय आर्द्धधातुके वा ॥ ३१ ॥ आर्द्धधातुकविषये आर्द्धधातुकविवक्षायामायादयः प्रत्यया वा भवन्ति । गोप्ता । गोपायिता । ऋतिता । ऋतीयिता । कमिता । कामयिता । णिचो प्रत्ययप्रसङ्गे तदुत्पत्तिरार्द्धधातुकविषये विकल्प्यते, तत्र यथायथं प्रत्यया भव- न्ति । गुप्तिः । गोपाया ॥
- असुञ् । हृणीङ् । कवय । पुरण । अत्रैते पुस्तकान्तरे ऽधिकः पदमञ्जरीसम्मतास्ततः