भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 182, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 182

॥ काशिका ॥ ३ ॥ २ ॥ १७४ असूर्यललाट इत्येतयोः कर्मणोरुपपदयोः दृशितपोर्धात्वोः खश्प्रत्ययो भवति । असूर्यम्पश्या राजदाराः । ललाटन्तप आदित्यः । असूर्य इति चास- मर्थसमासो ऽयम् । दृशिना नञः सम्बन्धात् । सूर्यं न पश्यन्तीति । मुप्तिपरं चैतत् । एवं नाम गुप्ता यदपरिहार्यदर्शनं सूर्यमपि न पश्यन्तीति ॥ उग्रम्पश्येरम्मदपाणिन्धमाश्च ॥ ३७ ॥ उग्रम्पश्य ईरम्मद पाणिन्धम इत्येते शब्दा निपात्यन्ते । उग्रं पश्यतीत्युग्र- म्पश्यः । ईरया माद्यतीतीरम्मदः । पाणयो आध्मन्ते ऽस्मिन्निति पाणिन्धमाः पन्थानः ॥ प्रियवशे वदः खच् ॥ ३८ ॥ प्रिय वश इत्येतयोः कर्मणोरुपपदयोर्वदेर्धातोः खच् प्रत्ययो भवति । प्रियं वदतीति, प्रियंवदः । वशंवदः । चकारः खचि ह्रस्व इति विशेषणार्थः । खकारो मुमर्थः । प्रत्ययान्तरकरणमुत्तरार्थम् ॥ खश्प्रकरणे गमेः सुप्युपसंख्या- नम् ॥ * ॥ मितंगमो हस्ती । मितंगमा हस्तिनी ॥ विहायसो विह च ॥ * ॥

  • विहायसा गच्छति, विहंगमः ॥ खच्च ङित्वा वक्तव्यः ॥ * ॥ विहंगः । विहं- गमः ॥ डेश्च विहायसो विहादेशो वक्तव्यः ॥ * ॥ विहगः ॥ द्विषत्परयोस्तापेः ॥ ३९ ॥ द्विषत्परयोः कर्मणोरुपपदयोस्तापेर्धातोः खच् प्रत्ययो भवति । चुरा- दिः तप संतापे, भ्वादिः । द्वयोरपि ग्रहणम् । द्विषन्तं तापयति तप दाहे, द्वि- षन्तपः । परन्तपः । द्विषत्परयोरिति द्वितकारको निर्देशः । तेन स्त्रियां न भ- वति । द्विषतीं तापयति द्विषतीतापः ॥ वाचि यमो व्रते ॥ ४० ॥ वाक्शब्दे कर्मण्युपपदे यमेर्धातोः खच् प्रत्ययो भवति व्रते गम्यमाने । व्रतम् इति शाश्वतो नियम उच्यते । वाचंयम आस्ते । व्रत इति किम् । वाग्यामः ॥ पूःसर्वयोर्दारिसहोः ॥ ४१ ॥ पूर् सर्व इत्येतयोः कर्मणोरुपपदयोर्यथासंख्यं दारिसहोर्धात्वोः खच् प्रत्ययो भवति । पुरं दारयति, पुरंदरः । सर्वंसहो राजा ॥ भगे च दारेरिति वक्तव्यम् ॥ * ॥ भगन्दरः ॥ सर्वकूलाभ्रकरीषेषु कषः ॥ ४२ ॥ सर्व कूल अभ्र करीष इत्येतेषु कर्मसूपपदेषु कषेर्धातोः खच् प्रत्ययो भवति । सर्वं कषति, सर्वंकषः खलः । कूलंकषा नदी । अभ्रंकषो गिरिः । करीषंकषा वात्या ॥
  • विहङ्गमश्चेति क्व चित् पाठः ।