भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 191, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 191

१८४ ॥ काशिका ॥ ३ ॥ २ ॥ ब्रह्मभ्रूणवृत्रेषु क्विप् ॥ ८७ ॥ कर्मणीति वर्त्तते । ब्रह्मादिषु कर्मसूपपदेषु हन्तेर्द्धातोः क्विप् प्रत्ययो भवति भूते । ब्रह्महा । भ्रूणहा । वृत्रहा । किमर्थमिदमुच्यते । यावता सर्वे- धातुभ्यः क्विब्विहित एव । ब्रह्मादिषु हन्तेः क्विब्वचनं नियमार्थम् । चतुर्वि- धश्चात्र नियम इष्यते ॥ ब्रह्मादिष्वेव हन्तेर्नान्यस्मिन्नुपपदे । पुरुषं हतवा- निति । ब्रह्मादिषु हन्तेरेव नान्यस्मात्स्यात् । ब्रह्माधीतवानिति । ब्रह्मादिषु हन्तेर्भूतकाले क्विबेव नान्यः प्रत्ययः । तथा भूतकालएव नान्यस्मिन् । ब्रह्माणं हन्ति हनिष्यति वेति । तदेतद्वक्ष्यमाणबहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते ॥ बहुलं छन्दसि ॥ ८८ ॥ पूर्वेण नियमादप्राप्तः क्विब्विधीयते । छन्दसि विषये उपपदान्तरेऽपि हन्तेर्बहुलं क्विप्प्रत्ययो भवति । मातृहा सप्तमं नरकं प्रविशेत् । पितृहा । न च भवति । मातृघातः । पितृघातः ॥ सुकर्मपापमन्त्रपुण्येषु कृञः ॥ ८६ ॥ कर्मणीति वर्त्तते, तदसंभवात्सुशब्दं वर्जयित्वा परिशिष्टानां विशेषणं भवति । स्वादिषु कर्मसूपपदेषु करोतेर्द्धातोः क्विप्प्रत्ययो भवति । सुकृत् । कर्म- कृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । अयमपि नियमार्थ आरम्भः । त्रिवि- धश्चात्र नियम इष्यते ॥ धातुनियमं वर्जयित्वा कालोपपदप्रत्ययनियमः । धातोरनियतत्वाद्वान्यस्मिन्नप्युपपदे भवति । शास्त्रकृत् । भाष्यकृत् ॥ सोमे सुञः ॥ ९० ॥ कर्मणीति वर्त्तते । सोमे कर्मण्युपपदे सुनोतेर्द्धातोः क्विप् प्रत्ययो भवति । सोमसुत् । सोमसुतौ । सोमसुतः । अयमपि नियमार्थ आरम्भः । चतुर्विधश्चात्र नियम इष्यते ॥ धातुकालोपपदप्रत्यय विषयः ॥ अग्नौ चेः ॥ ९१ ॥ कर्मणीत्येव । अग्नौ कर्मण्युपपदे चिनोतेर्द्धातोः क्विप् प्रत्ययो भवति । अग्निचित् । अग्निचितौ । अग्निचितः । अत्रापि पूर्ववच्चतुर्विधो नियम इष्यते ॥ कर्मण्यग्न्याख्यायाम् ॥ ९२ ॥ चेः कर्मणीति वर्त्तते । कर्मण्युपपदे चिनोतेः कर्मण्येव कारके क्विप् प्रत्ययो भवति अग्न्याख्यायां, धातूपपदप्रत्ययसमुदायेन चेदग्न्याख्यागम्यते । श्येनइव चीयते श्येनचित् । कङ्कचित् । आख्याग्रहणं रूढिसंप्रत्ययार्थम् । आख्यायैौ हीष्टकाचय उच्यते श्येनचिदिति ॥ कर्मणीनि विक्रियः ॥ ९३ ॥