भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 217, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 217

२१० ॥ काशिका ॥ ३ ॥ ३ ॥ भवति । प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते । प्रावारः । प्रवरः । आच्छा- दनइति किम् । प्रवरा गौः ॥ परौ भुवो ऽवज्ञाने ॥ ५५ ॥ विभाषेत्येव । परिशब्दउपपदे भवतेर्धातोर्र्विभाषा घञ् प्रत्ययो भवति अवज्ञाने गम्यमाने । अवज्ञानमसत्कारः । परिभावः । परिभवः । अवज्ञानइति किम् । सर्वतो भवनं परिभवः ॥ एरच् ॥ ५६ ॥ भावे अकर्त्तरि च कारके इति प्रकृतमनुवर्त्तते यावत्कृत्यल्युटो बहुल- मिति । इवर्णान्ताद्धातोर्भावे अकर्त्तरि च कारके संज्ञायामच् प्रत्ययो भवति । घञो पवादः । चकारो विशेषणार्थः । अन्तः थाथघञ्क्ताजबित्रकाणामिति । चयः । श्चयः । जयः । तयः ॥ अग्विधौ भयादीनामुपसंख्यानम् ॥ * ॥ नपुंसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ॥ जवस्रवौ छन्दसिवक्तव्यौ ॥ * ॥ ऊर्व्वारस्तु मे जवः । पञ्चौदनसवः * ॥ ऋदोरप् ॥ ५७ ॥ ऋकारान्तेभ्य उवर्णान्तेभ्यश्च अप् प्रत्ययो भवति । घञोपवादः । पित्करणं स्वरार्थम् । करः । गरः । शरः । उवर्णान्तेभ्यः । यवः । लवः । पवः । दकारो मुखसुखार्थः । मा भूत्तादपि परस्तपरः ॥ ग्रहवृदृनिश्चिगमश्च ॥ ५८ ॥ ग्रहादिभ्यो धातुभ्यो ऽप् प्रत्ययो भवति । घञोपवादः । निश्चिनोते- स्त्वचोपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः । निश्चयग्रहणं स्वरा- र्थम् ॥ वशिरण्योरुपसंख्यानम् ॥ * ॥ वशः । रणः ॥ घञर्थे कविधानं स्याद्धा- यात्र्याधिनिधुधर्षम् ॥ * ॥ प्रतिष्ठन्तेस्मिन्निति प्रस्थः पर्वतस्य । प्रख्यात्यस्मि- न्प्रख्यः । प्रपिबन्त्यस्यामिति प्रपा । आविध्यन्ति तेनेत्याविधः । विहन्यन्ते ऽस्मिन्निति विघ्नः । आयुध्यतेनेनेत्यायुधम् ॥ उपसर्गे ऽदः ॥ ५९ ॥ अपित्येव । उपसर्गेउपपदे ऽदेर्धातोरप् प्रत्ययो भवति । विघसः । प्रघसः । उपसर्गेइति किम् । घसः ॥ न्यौ च ॥ ६० ॥ निशब्दउपपदे अदेर्धातोरण् प्रत्ययो भवति । चकारादप् च । न्यादः । निघसः ॥

  • पिण्डोदनसव इति पा० ।