भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 25, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 25

९८ ॥ काशिका ॥ १ ॥ १ ॥ ङ्कद्भवति । प्रकृत्य । प्रहृत्य । ल्यबादेशे कृते ह्रस्वस्य पिति कृति तुगिति तुग्भ- वति । तद्धितादेशस्तद्धितवद्भवति । दाधिकम् । अद्यतनम् । कृत्तद्धितसमासा- श्चेति प्रातिपदिकसंज्ञा भवति । अव्ययादेशो ऽव्ययवद्भवति । प्रस्तुत्य । प्रहृत्य उपस्तुत्य । अव्ययादिति सुब्लुग् भवति । सुबादेशः सुब्बद्भवति । वृक्षात् । प्ल- क्षाय । सुपि चेति दीर्घत्वं भवति । तिङादेशस्तिङ्वद्भवति । अकुरुतम् । अकु- रुत । सुप्तिङन्तं पदमिति पदसंज्ञा भवति । पदादेशः पदवद्भवति । ग्रामो वः स्वम् । जनपदो नः स्वम् । पदस्येति रुत्वं भवति । वत्करणं किम् । स्थानि- आदेशस्य संज्ञा मा विज्ञायीति स्वाश्रयमपि यथा स्यात् । आङो यमहन्ः आहत । आङिद्विषेत्यात्मनेपदमुभयत्रापि भवति । आदेशग्रहणं किम् । आनु- मानिकस्याप्यादेशस्य स्थानिवद्भावो यथा स्यात् । पचतु । एहः । अनल्विधा- विति किम् । द्युपथिदादेशा न स्थानिवद्भवन्ति । द्यौः । पन्थाः । स इति दश्शब्दादिति सुलोपो न भवति ॥ अचः परस्मिन्पूर्वविधौ ॥ ५७ ॥ पूर्वेणानल्विधौ स्थानिवद्भाव उक्तः । अल्विध्यर्थमिदमारभ्यते । आदेशः स्थानिवदिति वर्तते । अच इति स्थानिनिर्देशः । परस्मिन्निति निमित्तसप्तमी । पूर्वविधाविति विषयसप्तमी । अजादेशः परनिमित्तकः पूर्वविधौ कर्तव्ये स्था- निवद्भवति । पटयति । अवधीत् । बहुखट्वकः । पटुमाचष्ट इति णिचि टिलोपे कृते तस्य स्थानिवद्भावादत उपधाया इति वृद्धिर्न भवति । अवधीत् । अतो लोपस्य स्थानिवद्भावादतो हलादेर्लघोेरिति हलन्तलक्षणा वृद्धिर्न भवति । बहु- खट्वक इति आपोऽन्यतरस्यामिति ह्रस्वस्य स्थानिवद्भावाद् ह्रस्वान्ते ऽन्त्यात्पूर्व- मिति स्वरो न भवति । अच इति किम् । प्रश्नः । अक्राष्टाम् । आगत्य । प्रश्न इति प्रच्छेर्नङ्प्रत्यये छोः शूडनुनासिके चेति छकारस्य शकारः परनिमि- त्तकस्तुकि कर्तव्ये न स्थानिवद्भवति । अक्राष्टामिति झलो झलीति सिचो लोपः परनिमित्तकः कृषेः षकारस्य षढोः कः सीति ककारे कर्तव्ये न स्थानिवद्भवति । आगत्येति वा ल्यपीति अनुनासिकलोपः परनिमित्तकस्तुकि कर्तव्ये न स्थानि- वद्भवति । परस्मिन्निति किम् । युवजानिः । वधूटेजानिः । वैयाघ्रपद्यः । आदी- ध्ये । युवजानीरिति जायाया निङ् न परनिमित्तकस्तेन यलोपे न स्थानिव- द्भवति । वैयाघ्रपद्य इति न परनिमित्तकः पादस्यान्तलोपः पद्भावं न प्रतिषे- धाति । आदीध्ये इति दीधीङ उत्तमपुरुषैकवचने टैरित्वस्यापरनिमित्तकत्वा- च्छीङोर्दीधीवेव्योरिति लोपो न भवति । पूर्वविधाविति किम् । हे गौः । वाभ्रवीयाः । नैषेयः । हे गौरिति सुब्लुगादेशः संबुद्धिलोपे कर्तव्ये न स्थानिव- द्भवति । वाभ्रवीया इति वाभ्रव्यस्यामीच्छात्रा इति वृद्धाच्छ इति छः इयन्तात्