काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 269, कुल 828 में से
संदर्भ में पढ़ें२६२ काशिका ॥ ४ ॥ १ ॥ सान्तर्वत्नी देवानुपैत् । सान्तर्वती देवानुपैत् । पतिवत्नी तरुणवत्सा : पतिवती तरुणवत्सा ॥ पत्युर्नो यज्ञसंयोगे ॥ ३३ ॥ पतिशब्दस्य नकारादेशः स्त्रियां विधीयते । ङीप् प्रत्ययस्तु नकारा- न्तत्वादेव सिद्धः । यज्ञसंयोगे, यज्ञेन संयोगो यज्ञसंयोगः । तत्साधनत्वात्फल- ग्रहीतृत्वाद्वा यजमानस्य पत्नी । पत्नि वाचं यच्छ । यज्ञसंयोगादिति किम् ग्रामस्य पतिरियं ब्राह्मणी । कथं वृषलस्य पत्नी । उपमानाद्भविष्यति ॥ विभाषा सपूर्वस्य ॥ ३४ ॥ पत्युर्न इति वर्तते । पतिशब्दान्तस्य प्रातिपदिकस्य सपूर्वस्यानुपसर्ज- नस्य स्त्रियां विभाषा नकारादेशो भवति, ङीप् तु लभ्यतएव । दृढपतिः । दृढपत्नी । स्थूलपतिः । स्थूलपत्नी । अप्राप्तविभाषेयमयज्ञसंयोगत्वात् । सपू- र्वस्येति किम् । पतिरियं ब्राह्मणी ग्रामस्य ॥ नित्यं सपत्न्यादिषु ॥ ३५ ॥ सपत्न्यादिषु नित्यं पत्युर्नकारादेशो भवति, ङीप् तु लभ्यतएव । पूर्वेण विकल्पे प्राप्ते वचनम् । नित्यग्रहणं विस्पष्टार्थम् । समानः पतिरस्याः सपत्नी । एकपत्नी । समानादिष्विति वक्तव्ये समानस्य सभावार्थे वचनम् । समान । [एक] । वीर । पिण्ड । भ्रातृ । पुत्र । दासाच्छन्दसि ॥ पूतक्रतोरे च ॥ ३६ ॥ पूतक्रतुशब्दस्य स्त्रियामैकारश्चान्तादेशो भवति ङीप् प्रत्ययः । पूतक्रतोः स्त्री पूतक्रतायी । त्रय । एते योगाः पुंयोगप्रकरणे द्रष्टव्याः । यया हि पूताः क्रतवः पूतक्रतुः सा भवति ॥ वृषाकप्यग्निकुसितकुसीदानामुदात्तः ॥ ३७ ॥ वृषाकप्यादीनामुदात्त ऐकारादेशो भवति स्त्रियां ङीप् च प्रत्ययः । वृषाकपिशब्दो मध्योदात्त उदात्तत्वं प्रयोजयति । चान्यादिषु पुनरन्तोदात्तेषु स्थानिवद्भावादेव सिद्धम् । वृषाकपेः स्त्री वृषाकपायी । अग्नायी । कुसि- तायी । कुसीदायी । पुंयोगइत्येव । वृषाकपिः स्त्री ॥ मनोरौ वा ॥ ३८ ॥ ऐ उदात्त इति वर्तते । मनुशब्दात् स्त्रियां ङीप् प्रत्ययो भवति औका- रश्चान्तादेश ऐकारश्चोदात्तः । वाग्रहणेन द्वावपि विकल्प्येते । तेन त्रैरूप्यं भवति । मनोः स्त्री मनायी । मनावी । मनुः । मनुशब्द आद्युदात्तः ॥