काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 277, कुल 828 में से
संदर्भ में पढ़ें२०२ ॥ काशिका ॥ ४ ॥ १ ॥ क्रोडादिभ्यश्च ॥ ८० ॥ क्रोडि इत्येवमादिभ्यश्च स्त्रियां ष्यङ् प्रत्ययो भवति । अगुरूपोत्तमार्थ आरम्भः । अनणिञर्थश्च । क्रोडा । लाडा । क्रोडि । लाडि । व्याडि । आपिशलि । आपक्षिति । चौपयत । चैटयत । शैलूयत । बैल्ययत * । सौधा- तकि ॥ सूत, युवत्याम् ॥ भोज, क्षत्रिये ॥ भौरिकि । भौलिकि । शाल्मलि । शालास्थलि । कापिष्ठलि । गौलत्थ† ॥ दैवयञ्शौचिवृक्षिसात्यमुग्रिकाष्ठेविद्धिभ्यो ऽन्यतरस्याम् ॥ ८१ ॥ दैवयञि शौचिवृक्षि सात्यमुग्रि काष्ठेविद्धि इत्येतेषामन्यतरस्यां ष्यङ् प्रत्ययो भवति । इञन्ता एते, गोत्रग्रहणं च नानुवर्त्तते । तेनोभयत्रविभाषेयम् । गोत्रे पूर्वेण ष्यङादेशः प्राप्तो विकल्प्यते, ऽगोत्रे त्वनन्तरे ऽपत्ये पक्षे विधीयते । तेन मुक्ते इतो मनुष्यजातेरिति ङीषेव भवति । दैवयञ्या । दैवयञ्जी । शौचि- वृक्ष्या । शौचिवृक्षी । सात्यमुग्र्या । सात्यमुग्री । काष्ठेविद्ध्या । काष्ठेविद्धी ॥ समर्थानां प्रथमाद्वा ॥ ८२ ॥ त्रयमप्यधिक्रियते समर्थानामिति च प्रथमादिति च वेति च, स्वार्थि- कप्रत्ययावधिश्चायमधिकारः । प्राग्दिशो विभक्तिरिति यावत् । स्वार्थिकेषु ह्यस्योपयोगो नास्ति विकल्पोऽपि तत्रानवस्थितः । के चिन्नित्यमेव भवन्ति । लक्षणवाक्यानि तस्यापत्यं, तेन रक्तं रागात्, तत्र भव, इत्येवमादीनि भवि- ष्यन्ति । तेषु सामर्थ्ये सति प्रथमानिर्द्दिष्टादेव विकल्पेन प्रत्ययो भवतीति वेदितव्यम् । समर्थानामिति निर्द्धारणे षष्ठी । समर्थानां मध्ये प्रथमं प्रत्यया- र्हत्वेन निर्द्धार्यते । तस्येति सामान्यविशेषलक्षणार्थे तदीयं प्राथम्यं विशेषणं विज्ञायते । उपगोरपत्यम्, औपगवः । समर्थानामिति किम् । काष्ठस्य उपगो, र- पत्यं देवदत्तस्य । प्रथमादिति किम् । षष्ठ्यन्ताद्वाद्या स्यात्प्रथमान्तान्मा भूत् । वेति किम् । वाक्यमपि यथा स्यात् । उपगोरपत्यमिति । यद्येवं समासवृत्ति- स्तद्धितवृत्त्या बाध्येत उपग्वपत्यमिति । नैष दोषः । पूर्वसूत्रादन्यतरस्यांग्रहणम- नुवर्त्तते । तेनैतदपि भविष्यति ॥ प्राग्दीव्यतोऽण् ॥ ८३ ॥ तेन दीव्यतीति वक्ष्यति । तदेकदेशो दीव्यच्छब्दो ऽवधित्वेन गृह्यते, प्राग्दीव्यत्संबन्धनाद् यानित ऊर्द्ध्वमनुक्रमिष्यामो ऽण्प्रत्ययस्तत्र भवतीति
- वैलक्यत । पा० २ । † गौलक्ष्य । पा० २ ।