भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 285, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 285

३८० ॥ काशिका ॥ ४ ॥ १ ॥ काश्मरथ । शर्कराक्ष । पूतिमाष । स्थूण । चरक । पिङ्गल । कृष्ण । गोलुन्द । उलूक । तितिक्ष । भिषज् । भडित । भण्डित । दलभ । चिक्रित । देवहू । इन्द्रहू । एकलू । पिप्पलू । बृहदग्नि । जमदग्नि । सुलोभिन् । उक्थ्य । कुटीगु ॥ मधुबभ्र्वोर्ब्राह्मणकौशिकयोः ॥ १०६ ॥ मधुशब्दाद्बभ्रुशब्दाच्च गोत्रापत्ये यञ् प्रत्ययो भवति यथासंख्यं ब्राह्मणे कौशिके वाच्ये । माधव्यो भवति ब्राह्मणश्चेत् । माधव एवान्यः । बाभ्रव्यो भवति कौशिकश्चेत् । बाभ्रव एवान्यः । बभ्रुशब्दो गर्गादिषु पठ्यते, ततः सिद्धे यञि कौशिके नियमार्थं वचनम् । गर्गादिषु पाठोऽप्यन्तर्गणकार्यार्थः । सर्वत्र लोहितादिकतन्तेभ्य इति । बाभ्रव्यायणी ॥ कपिबोधादाङ्गिरसे ॥ १०७ ॥ कपिबोधशब्दाभ्यामाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति । काप्यः । बौध्यः । आङ्गिरसदिति किम् । कापेयः । बौधिः । कपिशब्दो गर्गा- दिषु पठ्यते । तस्य नियमार्थं वचनम् । आङ्गिरसे यथा स्यात् । लोहितादि- कार्यार्थं गणे पाठः । काप्यायनी ॥ वतण्डाच्च ॥ १०८ ॥ आङ्गिरसदित्येव । वतण्डशब्दादाङ्गिरसे ऽपत्यविशेषे गोत्रे यञ् प्रत्ययो भवति । वातण्ड्यः । आङ्गिरसदिति किम् । वातण्डः । किमर्थमिदं यावता गर्गादिष्वयं पठ्यते । शिवादिष्वप्ययं पठ्यते । तत्राङ्गिरसे शिवाद्यणोऽपवादार्थं पुनर्वचनम् । अनाङ्गिरसे तूभयत्र पाठसामर्थ्यात्प्रत्ययद्वयमपि भवति । वात- ण्ड्यः । वातण्डः ॥ लुक् स्त्रियाम् ॥ १०९ ॥ आङ्गिरसदित्येव । वतण्डशब्दादाङ्गिरस्यां स्त्रियां यञ्प्रत्ययस्य लुग्भ- वति लुकि कृते शार्ङ्गरवादिपाठाङ्डीन् भवति । वतण्डी । आङ्गिरसदिति किम् । वातण्ड्यायनी । शिवाद्यणि तु वातण्डी ॥ अश्वादिभ्यः फञ् ॥ ११० ॥ आङ्गिरसदिति निवृत्तम् । अश्वादिभ्यो गोत्रापत्ये फञ् प्रत्ययो भवति । आश्वायनः । दाश्वायनः । ये त्वत्र प्रत्ययान्ताः पठ्यन्ते तेभ्यः सामर्थ्याद्भूयो प्रत्ययो विधीयते । अश्व । अश्मन् । शङ्कु । बिद । पुट । रोहिष । खर्जूर । खर्जूल । पिञ्जूर । भडिल । भण्डिल । भडित । भण्डित । अविन्द । प्रतूत । रामोद । तृण । वीणा । काण्ड । मोलाङ्क । अर्क । रक्षस् । काश । साद ।