काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 303, कुल 828 में से
संदर्भ में पढ़ें३८८ ॥ काशिका ॥ ४ ॥ २ ॥ उत्कर्षाधानं संस्कारः । भ्राष्ट्रे संस्कृता भक्ता भ्राष्ट्रा अपूपाः । कालशाः । कौम्भाः । भक्ता इति किम् । पुष्पपुटे संस्कृतो मालागुच्छः ॥ शूलोखाद्यत् ॥ १७ ॥ शूलशब्दादुखाशब्दाच्च सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति । अणोऽपवादः । शूले संस्कृतं शूल्यं मांसम् । उख्यम् ॥ दध्नष्ठक् ॥ १८ ॥ दधिशब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ठक् प्रत्ययो भव- ति । दध्नि संस्कृतं, दाधिकम् । ननु च संस्कृतार्थे प्राग्वहतेष्ठकं वक्ष्यति तेनैव सिद्धम् । न सिद्ध्यति । दध्ना हि तत्संस्कृतं यस्य दधिकृतमेवोत्कर्षाधानम्, इह तु दधि केवलमाधारभूतं द्रव्यान्तरेण लवणादिना संस्कारः क्रियते ॥ उदश्वितो ऽन्यतरस्याम् ॥ १९ ॥ उदश्विच्छब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ऽन्यतरस्यां ठक् प्रत्ययो भवति । पक्षे यथाप्राप्तमण् भवति । औदश्वितम् । औदश्वित्कम् ॥ क्षीराड्ढञ् ॥ २० ॥ क्षीरशब्दात्सप्तमीसमर्थात्संस्कृतं भक्ता इत्येतस्मिन्नर्थे ढञ् प्रत्ययो भव- ति । अणोऽपवादः । क्षीरे संस्कृता, क्षैरेयी यवागूः ॥ सास्मिन्पौर्णमासीति संज्ञायाम् ॥ २१ ॥ सेति प्रथमासमर्थाद् अस्मिन्निति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति, यत्तत्प्रथमासमर्थं पौर्णमासी चेद्भवति इतिकरणस्ततश्चेद्विवक्षता । संज्ञायामिति समुदायोपाधिः, प्रत्ययान्तेन चेत्संज्ञा गम्यतइति । मासाद्र्धमाससंवत्सराणामेषा संज्ञा । पौषी पौर्णमासी अस्मिन्नसौ मासः । पौषोऽर्द्धमासः । पौषः संवत्सरः । इह न भवति । पौषी पौर्णमासी अस्मिन्दशरात्रइति । मृतकमासे । च न भवति । इतिकरणस्य संज्ञाशब्दस्य च तुल्यमेव फलं प्रयोगानुसारणं, तत्र किमर्थं द्वयमुपादीयते, संज्ञाशब्देन तुल्यतामिति करणस्य ज्ञापयितुं, नह्ययं लोके तथा प्रसिद्धः । संज्ञार्थत्वे तु संप्रति ज्ञापिते यत्ततश्चोच्यते इतिकरणस्ततश्चेद्विवक्षेति तदुपपन्नं भवति । अथ पौर्णमासीति कोऽयं शब्दः । पूर्णमासादण्, पौर्णमासी । अथ वा पूर्णो माः पूर्णमाः, पूर्णमास इयं पौर्णमासी । मा इति चन्द्र उच्यते ॥ आग्रहायण्यश्वत्थाट्ठक् ॥ २२ ॥ सास्मिन्पौर्णमासीति सर्वमनुवर्तते । आग्रहायणीशब्दादश्वत्थशब्दाच्च प्रथमासमर्थात्पौर्णमास्युपाधिकाद् अस्मिन्निति सप्तम्यर्थे ठक् प्रत्ययो भवति । अणोऽपवादः । आग्रहायणिको मासः । अर्द्धमासः । संवत्सरः । एवमाश्वत्थिकः ॥