भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 313, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 313

३०८ ॥ काशिका ॥ ४ ॥ २ ॥ अनुब्राह्मणशब्दादिनिः प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन्विषये । अणोऽपवादः । ब्राह्मणसदृशो ऽयं ग्रन्थो ऽनुब्राह्मणम् । तदधीते, ऽनुब्राह्मणी । अनुब्राह्मणिनौ । अनुब्राह्मणिनः । मत्वर्थेनात इनिठनाविति इनिनासिद्धम् । तन्नैतस्माद्वपि प्राप्नोति, अनभिधानाच्च भविष्यति । अणोनिवृत्त्यर्थं तर्हि वच- नम् ॥ वसन्तादिभ्यष्ठक् ॥ ६३ ॥ वसन्त इत्येवमादिभ्यष्ठक्प्रत्ययो भवति तदधीते तद्वेदेत्यस्मिन्विषये। अणोऽपवादः । वसन्तसहचरितोयं ग्रन्थो वसन्त,स्तमधीते, वासन्तिकः । वार्षि- कः । वसन्त । वर्षा । शरद् । हेमन्त । शिशिर । प्रथम । गुहा । चरम । अनु- गुहा । आपर्वन् । आथर्वन् ॥ प्रोक्ताल्लुक् ॥ ६४ ॥ प्रोक्तसहचरितः प्रत्ययः प्रोक्तः । प्रोक्तप्रत्ययान्तादध्येतृवेदित्रोरुत्पन्नस्य लुग्भवति । पाणिनिना प्रोक्तं पाणिनीयम्, तदधीते पाणिनीयः । आपिशलः । स्त्रियां स्वरे च विशेषः । पाणिनीया ब्राह्मणी ॥ सूत्राच्च कोपधात् ॥ ६५ ॥ सूत्रवाचिनः ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग्भवति । अप्रोक्तार्थ आर- म्भः । पाणिनीयमष्टकं सूत्रं तदधीते, चाष्टकाः पाणिनीयाः दशका वैयाघ्रप- दीयाः । त्रिकाः काशकृत्स्नाः ॥ संख्याप्रकृतेरिति वक्तव्यम् ॥ * ॥ इह मा भूत् । महावार्त्तिकं सूत्रमधीते, माहावार्त्तिकः । कालापकमधीते, कालापकः । कोप- धादिति किम् । चतुष्टयमधीते, चातुष्टयः ॥ छन्दोब्राह्मणानि च तद्विषयाणि ॥ ६६ ॥ प्रोक्तग्रहणमनुवर्त्तते । छन्दांसि ब्राह्मणानि च प्रोक्तप्रत्ययान्तानि तद्वि- षयाण्येव भवन्ति । अध्येतृवेदितृप्रत्ययविषयाणि । अनन्यभावो विषयार्थः । तेन स्वातन्त्र्यमुपाद्यन्तरयोगे वाक्यं च निवर्त्तते । कठेन प्रोक्तमधीयते, कठाः । मौदाः । पैप्पलादाः । आर्चायिनः । वाजसनेयिनः । ब्राह्मणानि खल्वपि । ताण्डिनः । भाल्लविनः । शाट्यायनिनः । ऐतरेयिणः । ब्राह्मणग्रहणं किम् । यावता छन्द एव तत् । ब्राह्मणविशेषप्रतिपत्त्यर्थ,मिह तद्विषयता मा भूत् । याज्ञवल्क्येन प्रोक्तानि ब्राह्मणानि, याज्ञवल्क्यानि । सौलभानि । चकारो ऽनुक्त- समुच्चयार्थः । कल्पे । काश्यपिनः । कौशिकिनः । सूत्रे । पाराशरिणो भिक्षवः । शैलालिनो नटाः । कर्म्मन्दिनः । कृशाश्विनः । छन्दोब्राह्मणानीति किम् । पाणिनीयं व्याकरणम् । पैङ्गी कल्पः ॥

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 313, कुल 828 में से · BharatKosha