काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 332, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ३ ॥ ३२७. देशाधिकारो निवृत्तः । युष्मदस्मदोः खञ् प्रत्ययो भवति शैषिकः । चकाराच्छश्च । अन्यतरस्यां ग्रहणाद्यथाप्राप्तम् । तदेते त्रयः प्रत्यया भवन्ति तत्र वैषम्याद्यथासंख्यं न भवति । त्यदादित्वाद्वृद्धसंज्ञकयोर्युष्मदस्मदोश्छे प्राप्ते प्रत्येकं प्रत्ययत्रयं विधीयते । यौष्माकीणः । आस्माकीनः । युष्मदीयः । अस्मदीयः । यौष्माकः । आस्माकः ॥ तस्मिन्नणि च युष्माकास्माकौ ॥ २ ॥ तस्मिन्निति साक्षाद्विहितः खञ् निर्दिश्यते न चकारानुकृष्टश्छः । तस्मिन्खञि अणि च युष्मदस्मदोर्यथासंख्यं युष्माक आस्माक इत्येतावादेशौ भवतः । निमित्तयोरादेशौ प्रति यथासंख्यं कस्मान्न भवति । योगविभागः करिष्यते, तस्मिन् । खञि युष्मदस्मदोर्युष्माकास्माकौ भवतः । ततो ऽणि चेति । यौष्माकीणः । आस्माकीनः । यौष्माकः । आस्माकः । तस्मिन्नणि चेति किम् । युष्मदीयः । अस्मदीयः ॥ तवक ममकावेकवचने ॥ ३ ॥ एकवचनपरयोर्युष्मदस्मदोस्तवक ममक इत्येतावादेशौ भवतो यथासं- ख्यं तस्मिन्खञि अणि च परतः । निमित्तयोस्तु यथासंख्यं पूर्ववदेव न भवति । ननु च न लुमतानङ्गस्येति प्रत्ययलक्षणप्रतिषेधादेकवचनपरता युष्मदस्मदोर्न संभवति । वचनात्प्रत्ययलक्षणं भविष्यति * । अथ वा नैवेदं प्रत्ययलक्षणं किं तर्ह्यन्वर्थग्रहणम् । एकवचने युष्मदस्मदी एकस्यार्थस्य वाचके तवकममकावा- देशौ प्रतिपद्येते इति सूत्रार्थः । तावकीनः । मामकीनः । तावकः । मामकः । तस्मिन्नणि चेत्येव । त्वदीयः, मदीयः ॥ अर्द्धाद्यत् ॥ ४ ॥ अर्द्धशब्दाद् यत् प्रत्ययो भवति शैषिकः । अणोऽपवादः । अर्द्धम् । सपू- र्वपदाट्ठञ्वक्तव्यः ॥ * ॥ बालेयार्द्धिकम् । गौतमार्द्धिकम् ॥ परावराधमोत्तमपूर्वाच्च ॥ ५ ॥ पर अवर अधम उत्तम इत्येवं पूर्वाच्चार्द्धशब्दात् प्रत्ययो भवति शैषिकः । परार्द्धम् । अवरार्द्धम् । अधमार्द्धम् । उत्तमार्द्धम् । पूर्वग्रहणं किम् । परावरा- धमोत्तमेभ्य इत्येवोच्येत, अर्द्धादिति वर्तते । तस्य तत्पूर्वता विज्ञास्यते । परा- वरशब्दावदिग्ग्रहणावपि स्तः, परं सुखमवरं सुखमिति । तत्र कृतार्थत्वाद दिक्शब्दत्वात् परे ठञ्छौ स्याताम्, तस्मात्पूर्वग्रहणाद्यत्प्रत्ययो भवति परा- र्द्धमवरार्द्धमिति ॥
- वचनात्प्रत्ययलक्षणप्रतिषेधो न संभवति । पा० २ ।