काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 334, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ३ ॥ ३२८ विभाषा रोगातपयोः ॥ १३ ॥ शरद इत्येव । रोगे आतपे चाभिधेये शरच्छब्दाट्ठञ् प्रत्ययो वा भवति शैषिकः । खञोऽपवादः । शारदिको रोगः । शारदिक आतपः । शारदो रोगः । शारद आतपः । रोगातपयोरिति किम् । शारदं दधि ॥ निशाप्रदोषाभ्यां च ॥ १४ ॥ निशाप्रदोषशब्दाभ्यां विभाषा ठञ् प्रत्ययो भवति शैषिकः । कालाट्ठञिति नित्ये ठञि प्राप्ते विकल्प उच्यते । नैशम् । नैशिकम् । प्रादोषम् । प्रादोषिकम् ॥ श्वसस्तुट् च ॥ १५ ॥ विभाषेत्येव । श्वःशब्दाद्विभाषा ठञ् प्रत्ययो भवति, तस्य च तुडागमो भवति । त्यप्प्रत्ययोऽप्यतो विहित ऐषमोह्यःश्वोन्यतरस्यामिति । एताभ्यां मुक्ते ट्युट्युलावपि भवतः । शौवस्तिकः । श्वस्त्यः । श्वस्तनः ॥ संधिवेलाद्यृतुनक्षत्रेभ्यो ऽण् ॥ १६ ॥ कालादित्येव संधिवेलादिभ्य ऋतुभ्यो नक्षत्रेभ्यश्च कालवृत्तिभ्यो ऽण् प्रत्ययो भवति शैषिकः । ठञोऽपवादः । अण्ग्रहणं वृद्धाच्छस्य बाधनार्थम् । संधिवेलादिभ्यस्तावत् । सांधिवेलम् । सांध्यम् । ऋतुभ्यः । ग्रैष्मम् । शैशि- रम् । नक्षत्रेभ्यः । तैषम् । पौषम् । संधिवेला । संध्या । अमावास्या । त्रयो- दशी । चतुर्दशी । पञ्चदशी । पौर्णमासी । प्रतिपत् ॥ संवत्सरात्फलपर्वणोः ॥ सांवत्सरं फलम् । सांवत्सरं पर्व ॥ प्रावृष एण्यः ॥ १७ ॥ प्रावृष्शब्दादेण्यः प्रत्ययो भवति शैषिकः । छञोऽपवादः । प्रावृषेण्यो बलाहकः ॥ वर्षाभ्यष्ठक् ॥ १८ ॥ वर्षाशब्दाट्ठक् प्रत्ययो भवति शैषिकः । छञोऽपवादः । वार्षिकं वासः । वार्षिकमनुलेपनम् ॥ छन्दसि ठञ् ॥ १९ ॥ वर्षाशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । ठकोऽपवादः । स्वरे भेदः । नभश्च नभस्यश्च वार्षिकावृतू ॥ वसन्ताच्च ॥ २० ॥ छन्दसीत्येव । वसन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः । छञोऽपवादः । मधुश्चमाधवश्च वासन्तिकावृतू ॥