काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 336, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ३ ॥ ३३१ प्रावृषष्टप् ॥ २६ ॥ प्रावृट्शब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे टप् प्रत्ययो भवति । एण्यस्यापवादः । पकारः स्वरार्थः । प्रावृषि जातः, प्रावृषिकः ॥ संज्ञायां शरदो वुञ् ॥ २७ ॥ शरच्छब्दात्सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति, ऋत्वणोपवादः समुदायेन चेत्संज्ञा गम्यते । शारदका दर्भाः । शारदका मुद्गाः । दर्भविशेषस्य मुद्गविशेषस्य चेयं संज्ञा । संज्ञायामिति किम् । शारदं सस्यम् । संज्ञाधिकारं के चित्‘कृतलब्धक्रीतकुशला’ इति यावदनुवर्तयन्ति ॥ पूर्वाह्नापराह्लाद्रा॑मूलप्रदोषावस्कराद्वुन् ॥ २८ ॥ पूर्वाह्नादिभ्यः शब्देभ्यो वुन् प्रत्ययो भवति तत्र जात इत्येतस्मिन्वि- षये संज्ञायां गम्यमानायाम् । पूर्वाह्णक