काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 343, कुल 828 में से
संदर्भ में पढ़ें३३८ ॥ काशिका ॥ ४ ॥ ३ ॥ रेषान्तोदात्ताः प्रकृतयः। बह्वच इति किम्। द्वयचष्टकं वक्ष्यति। एकाच् प्रत्यु- दाह्रियते। सौपम्। तैदम्। कार्नम्। अन्तोदात्तादिति किम्। संहितायाः सांहितम्। संहिताशब्दो हि गतिस्वरेणाद्युदात्तः ॥ ऋतुयज्ञेभ्यश्च ॥ ६८ ॥ ऋतुभ्यो यज्ञेभ्यश्च व्याख्यातव्यनामभ्यः प्रातिपदिकेभ्यो भवव्याख्यानयो- रर्थयोष्ठञ् प्रत्ययो भवति। अणोपवादः। ऋतुभ्यस्तावत्। अग्निष्टोमस्य व्या- ख्यानस्तत्र भवो, वाग्निष्टोमिकः। वाजपेयिकः। राजसूयिकः। यज्ञेभ्यः। पाक- यज्ञिकः। नावयज्ञिकः। अनन्तोदात्तार्थ आरम्भः। ऋतुभ्य इत्येव सिद्धे यज्ञ- ग्रहणमसामयागेभ्योपि यथा स्यात्, पाञ्चौदनिकः। दाशौदनिकः। बहुवचनं स्वरूपविधिनिरासार्थम् ॥ अध्यायेष्वर्षेः ॥ ६६ ॥ ऋषिशब्दाः प्रवरनामधेयानि तेभ्य ऋषिशब्देभ्यो भवव्याख्यानयोर्थे- योष्ठञ् प्रत्ययो भवति। अणोपवादः। अध्यायेष्वेव प्रत्ययार्थविशेषणेषु। व्याख्यातव्यनाम इत्यनुवर्तते तत्साहचर्यादृषिशब्दैर्ग्रन्थ उच्यते। वसिष्ठस्य व्याख्यानस्तत्र भवो वा वासिष्ठिको ऽध्यायः। वैश्वामित्रिकः। अध्यायेष्विति किम्। वासिष्ठी ऋक् ॥ पौरोडाशपुरोडाशात् ष्ठन् ॥ ७० ॥ पौरोडाशशब्दात्पुरोडाशशब्दाच्च भवव्याख्यानयोरर्थयोः ष्ठन् प्रत्ययो भवति। पुरोडाशाः पिष्टपिण्डास्तेषां संस्कारको मन्त्रः पौरोडाशस्तस्य व्याख्या- नस्तत्र भवो वा पौरोडाशिकः। पौरोडाशिकी। पुरोडाशसहचरितो ग्रन्थः पुरो- डाशस्तस्य व्याख्यानस्तत्र भवो वा पुरोडाशिकः। पुरोडाशिकी। णकारो ङीबर्थः ॥ छन्दसो यद्णौ ॥ ७१ ॥ छन्दःशब्दाद्भवव्याख्यानयोरर्थयोर्यद्णौ प्रत्ययौ भवतः। द्व्यच इति ठकि प्राप्ते वचनम्। छन्दस्यः। छान्दसः ॥ द्व्यजुद्ब्राह्मणर्चप्रथमध्वरपुरश्चरणना- माख्याताट्ठक् ॥ ७२ ॥ द्व्यजादिभ्यः प्रातिपदिकेभ्यो व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयो- र्ठक् प्रत्ययो भवति। अणादेरपवादः। द्व्यचस्तावत्, ऐष्टिकः। पाशुकः। उकारान्तात्। चातुर्होत्रुकः। पाञ्चहोत्रुकः। ब्राह्मण। ब्राह्मणिकः। ऋक्। आर्चिकः। प्रथम। प्राथमिकः। अध्वर। आध्वरिकः। पुरश्चरण। पौरश्चर-