भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 347, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 347

[Header] ३४२ ॥ काशिका ॥ ४ ॥ ३ ॥

प्रकरणम् । वाक्यपदीयम् । इन्द्रजननादिभ्यः । इन्द्रजननीयम् । प्रत्युद्भागम- नीयम् * । इन्द्रजननादिराकृतिगणः प्रयोगतो ऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते ॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः ॥ * ॥ दैवासुरम् । राक्षसासुरम् । गौख- मुख्यम् । इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोपि तत्रैव द्रष्टव्याः । प्रपञ्चार्थमेषां ग्रहणम् । एवं सति देवासुरादिप्रतिषेधोपि न वक्तव्यः, ततश्छप्र- त्ययस्यादर्शनात् ॥ सोस्य निवासः ॥ ८९ ॥ स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति यत्प्र- थमासमर्थं निवासश्चेत्स भवति, निवसन्त्यस्मिन्निवासो देश उच्यते । सुघ्नो निवासो ऽस्य सौघ्नः । माथुरः । राष्ट्रियः ॥ अभिजनश्च ॥ ९० ॥ [L1

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 347, कुल 828 में से · BharatKosha