काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 357, कुल 828 में से
संदर्भ में पढ़ें३५४ ॥ काशिका ॥ ४ । ३ ॥ ष्ठञ्छन्दसीति प्राप्तः प्रतिषिध्यते । मौञ्जं शिक्यम् । गार्मुतं चक्रम् । वार्क्षी बालप्रग्रथिता भवति । बैल्वो ब्रह्मवर्चसकामेन कार्यः । तपरकरणं तत्कालार्थम् । धूममयान्यभ्राणि । मतुब्निर्देशस्तदन्तविधिनिरासार्थः । इहैव स्यात् । बेल्वो यष्टिरिति ॥ तालादिभ्योऽण् ॥ १५२ ॥ तालादिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति विकारावयवयोर- र्थयोः । मयडादीनामपवादः । तालं धनुः । बार्हिषम् । ऐन्द्रालिषम् ॥ ताल * धनुषि * ॥ बार्हिष । इन्द्रलिष । इन्द्रादृश । इन्द्रायुध । चाप † श्यामाक । प्रागुक्ता । तालादिः ॥ जातरूपेभ्यः परिमाणे ॥ १५३ ॥ जातरूपं सुवर्णम् । बहुवचननिर्देशात्तद्वाचिनः सर्वे गृह्यन्ते । जातरूप- वाचिभ्यः प्रातिपदिकेभ्यो ऽण् प्रत्ययो भवति परिमाणे विकारे । मयडादीना- मपवादः । हाटको निष्कः । हाटकं कार्षापणम् । जातरूपम् । तापनीयम् ।
- परिमाण इति किम् । यष्टिरियं हाटकमयी ॥ प्राणिरजतादिभ्यो ऽञ् ॥ १५४ ॥ प्राणिवाचिभ्यः प्रातिपदिकेभ्यो रजतादिभ्यश्चाञ् प्रत्ययो भवति विका- रावयवयोरर्थयोः । अणादीनामपवादः । अनुदात्तादेरञ् विहित एव, परिशि- ष्टमिहोदाहरणम् । प्राणिभ्यस्तावत् । कापोतम् । मायूरम् । तैत्तिरम् । रज- तादिभ्यः । राजतम् । सैसम् । लौहम् । रजतादिषु ये ऽनुदात्तादयः पठ्यन्ते रजतकण्टकारप्रभृतयस्तेभ्योऽञि सिद्धे पुनर्वचनं मयड्बाधनार्थम् । रजत । सीस । लोह । उदुम्बर । नीच ‡ । दाह । रोहितक । बिभीतक । कपीत । दाढ । तीव्रदाह । त्रिकण्टक । कण्टकार ॥ ञितश्च तत्प्रत्ययात् ॥ १५५ ॥ अञित्येव । तदिति विकारावयवयोरर्थयोः प्रत्यवमर्शः । ञित्तो विका- रावयवप्रत्ययस्तदन्तात्प्रातिपदिकादञ् प्रत्ययो भवति विकारावयवयोरथ § । मयटोपवादः । ओरञ् । शम्याष्ट्लञ् । प्राणिरजतादिभ्योऽञ् । उष्ट्रादुञ् । शङ्खा ठञ् । कंसीयपरशव्ययोर्यञञौ । इत्येते प्रत्यया गृह्यन्ते । दैवदारवस्य
- तालान्धनुषीत्यारभ्य तालमयमन्वत् । नित्यं वृद्धेति मयट् । इत्याधिकमेक- स्मिन्पुस्तके । † चर्मेति पा० २ । ‡ नीचेति पा० २ । § विकारावयवयोरित्येवेति पा० २ ।