काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 372, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ४ ॥ ४ ॥ ३७१ संज्ञायां धेनुष्या ॥ ८९ ॥ धेनुष्येति निपात्यते संज्ञायां विषये । संज्ञायहणमभिधेयनियमार्थम् । धेनोः ष्ठुगागमो यश्च प्रत्ययः । अन्तोदात्तोऽपि ह्ययमिष्यते । या धेनुरुत्तमर्णाय वत्सप्रदानाद्दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धेति यस्याः प्रसिद्धिः । धेनुष्यां भवते ददामि ॥ गृहपतिना संयुक्ते ञ्यः ॥ ९० ॥ निर्देशायदेव तृतीया समर्थविभक्तिः । गृहपतिशब्दात्तृतीयासमर्थात्संयु- क्तइत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः, गार्हपत्योऽग्निः । अन्यस्यापि गृहपतिना संयोगो ऽस्ति तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः ॥ नौवयोधर्मविषमूलमूलसीतातुल़ाभ्यस्तार्यतुल्यप्रा- प्यवध्यानाम्यसमसमितसम्मितेषु ॥ ९१ ॥ नावादिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्वेव तार्यादिष्वर्थेषु यथासंख्यं यत्प्र- त्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते । नावा तार्यं, नाव्यमुदकम् । नाव्या नदी । शख्यार्थे रूत्यः । वयसा तुल्यो, वयस्यः सखा । संज्ञाधिकारो ऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं, धर्म्यम् । ननु च धर्मादनपेतइति वक्ष्यमाणेनैव सिद्धम् । नैतदस्ति । धर्मे यदनुवर्तते तद्धर्मादनपेतमित्युच्यते । फलं तु धर्मादपेत्येव कार्यविरोधि- त्वादधर्मस्य । विषेण वद्यो, विष्यः । विषेण वधमर्हतीत्यर्थः । मूलेनानाम्यं, मूल्यम् । अनाम्यमभिभवनीयम् । पटादीनामुत्पत्तिकारणं मूलं तेन तदभि- भूयते शेषी क्रियते । मूल्यं हि सगुणं मूलं करोति । पोरदुपधादिति यति प्राप्ते चानाम्यामिति निपातनाद् ण्यत् । मूलेन । समो, मूल्यः पटः । उपा- दानेन समानफल इत्यर्थः । सीतया समितं, सीत्यं क्षेत्रम् । समितं संगतमि- त्यर्थः ॥ रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरपीष्यते ॥ परमसीत्यम् । उत्तमसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुलया संमितं, तुल्यम् । संमितं समानं सदृशमित्यर्थः । यथा तुला परिच्छिनत्ति परमेवं तदपीति ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ९२ ॥ निर्देशायदेव पञ्चमी समर्थविभक्तिः । धर्मादिभ्यः पञ्चमीसमर्थेभ्यो ऽनपेतइत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । धर्मादनपेतं, धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । संज्ञाधिकारादभिधेयनियमः ॥ छन्दसो निर्मिते ॥ ९३ ॥ प्रत्ययार्थसामर्थ्याल्लभ्या समर्थविभक्तिः । छन्दःशब्दात्तृतीयासमर्थाद्भि-