भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 383, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 383

३८२ ॥ काशिका ॥ ५ । १ ॥ चात्रापि कर्मधारयादेव । सर्वजनीयमन्यत् ॥ महाजनाचित्यं ष्ठन्वक्तव्यः ॥ * ॥ महाजनाय हितं, माहाजनिकम् । तत्पुरुषादेव । बहुव्रीहेस्तु छ एव भवति । महाजनीयम् । भोगोत्तरपदात्खल्वपि । मातृभोगीणाः । पितृभोगीणाः । भोग- शब्दः शरीरवाची केवलेभ्यो मात्रादिभ्यः छ एव भवति । मात्रीयः । पित्रीयः । राजाचार्याभ्यां तु नित्यम् । भोगोत्तरपदाभ्यामेव खः प्रत्यय इष्यते, न केवला- भ्याम् । राजभोगीनाः । आचार्यभोगीनाः ॥ आचार्यादणत्वं च ॥ * ॥ केवलाभ्यां वाक्यमेव भवति । राज्ञे हितम् । आचार्याय हितमिति ॥ सर्वपुरुषाभ्यां णढञौ ॥ १० ॥ सर्वपुरुषाभ्यां यथासंख्यं णढञौ प्रत्ययौ भवतः तस्मै हितमित्येतस्मि- न्विषये । छस्यापवादः । सर्वस्मै हितं, सार्वम् । पौरुषेयम् ॥ सर्वाण