काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 39, कुल 828 में से
संदर्भ में पढ़ें[Header] ३२ ॥ काशिका ॥ १ ॥ २ ॥
किम् । इ३ विश्वं सम्भिषं दहा३ । सामानि वाक्यविशेषस्यगीतय उच्यन्ते । तत्रैकश्रुतिर्न भवति ॥ उच्चैस्तरां वा वषट्कारः ॥ ३५ ॥ यज्ञकर्म्मणीति वर्तते । यज्ञकर्म्मणि वषट्कारः उच्चैस्तरां वा भवति एक- श्रुतिर्वा । वषट्शब्देनात्र वौषट्शब्दो लक्ष्यते, वौषडित्यस्यैवेदं स्वरविधानम् । यद्येवं वौषड्ग्रहणमेव कस्मान्न कृतम् । वैचित्र्यार्थम् । विचित्रा हि सूत्रस्य कृतिः पाणिनेः । सोमस्याग्ने वीही ३ वौ ३ षट् । सोमस्याग्ने वीही ३ वौ ३ षट् ॥ ॥ विभाषा छन्दसि ॥ ३६ ॥ छन्दसि विषये विभाषा एकश्रुतिर्भवति, पक्षान्तरे त्रैस्वर्यमेव भवति । वेति प्रकृते विभाषाग्रहणं यज्ञकर्म्मणीत्यस्य निवृत्त्यर्थम् । तेनायं स्वाध्यायका- लेपि पाक्षिक एकश्रुत्यविधिर्भवति । इषे त्वोर्जे त्वा । इषे त्वोर्जे त्वा । अग्नआयाहि वीतये । अग्नआयाहि वीतये । अग्निमीळे पुरोहितम् । अग्निमीळे पुरोहितम् । शन्नो देवीरभिष्टये । शन्नो देवीरभिष्टये । * व्यवस्थितविकल्पोय- मिति के चित् । व्यवस्था च वेदे मन्त्रदले नित्यं त्रैस्वर्यं ब्राह्मणदले नित्यमै- कश्रुत्यमिति ॥ “इच्छासंदितयोरार्षे छन्दो वेदे च छन्दसि” इति नानार्थकोशात् छन्दसि वर्णसंहितायामिति भट्टाचार्य्यवरव्या- हृति । भाषायामप्येकश्रुतिर्विभाषा भवतीति सिद्धम् ॥ न सुब्रह्मण्यायां स्वरितस्य तूदात्तः ॥ ३७ ॥ सुब्रह्मण्या नाम निगदस्तत्र यज्ञकर्म्मणीति विभाषा छन्दसीति च एकश्रुतिः प्राप्ता प्रतिषिध्यते । सुब्रह्मण्यायामेकश्रुतिर्न भवति । यस्तु लक्ष- प्राप्तः स्वरितस्तस्योदात्त आदेशो भवति । सुब्रह्मण्यो ३ मिन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेष वृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण श्वः सुत्यामागच्छ मघवन् । अत्र सुब्रह्मण्योमित्योकार- स्तिस्वरित स्वरितस्तस्योदात्तो विधीयते । इन्द्र आगच्छेत्यामन्त्रितमाद्युदात्तं द्वितीयो वर्णो ऽनुदात्तः । उदात्तादनुदात्तस्य स्वरित इति स्वरितः प्रसक्तस्त- स्यानेनोदात्तः क्रियते । तेन द्वावप्युदात्तौ संपद्येते । आगच्छेत्याकार उदात्तः । ततः परोऽनुदात्तः स्वरितस्तस्यानेनोदात्तः क्रियते । तदेवमिन्द्र आगच्छेति चत्वार उदात्ताः । पश्चम एकोऽनुदात्तः । हरिव आगच्छेत्यनयैव प्रक्रियया चत्वार उदात्ताः द्वावनुदात्तौ । मेधातिथेरिति षष्ठ्यन्तं परमामन्त्रितमनुप्रविशति ।
- व्यवस्थितेत्यारभ्य सिद्धमित्यन्तः पाठः केषु चित्पुस्तकेषु नोपलभ्यते ।