भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 395, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 395

३९४ ॥ काशिका ॥ ५ ॥ १ ॥ शीर्षच्छेदाद्यच्च ॥ ६५ ॥ शीर्षच्छेदशब्दाद् द्वितीयासमर्थाच्चित्यमर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो भवति चकाराद्यथाविहितश्च । शिरश्छेदं नित्यमर्हति, शीर्षच्छेद्यः । शीर्ष- च्छेदिकः । प्रत्ययसन्नियोगेन शिरसः शीर्षभावो निपात्यते ॥ दण्डादिभ्यो यः* ॥ ६६ ॥ नित्यमिति निवृत्तम् । दण्डादिभ्यो द्वितीयासमर्थेभ्यो ऽर्हतीत्यस्मिन्नर्थे यः प्रत्ययो भवति । ठञोपवादः । दण्डमर्हति, दण्ड्यः । मुसल्यः । दण्ड । मुसल । मधुपर्कं । कशा । अर्घ । मेधा । मेघ । युग । उदक । वध । गुहा । भाग । रभ । दण्डादिः ॥ छन्दसि च ॥ ६७ ॥ प्रातिपदिकमात्राच्छन्दसि विषये तदर्हतीत्यस्मिन्नर्थे यत् प्रत्ययो [L13