काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 41, कुल 828 में से
संदर्भ में पढ़ें३४ ॥ काशिका ॥ १ ॥ २ ॥ निहन्यते, अनुदात्तं सर्वमपादादाविति तस्य प्रथममक्षरमुदात्तं तस्मिन्परभूते पूर्वस्य सरस्वतौतो कारस्य सन्वतर आदेशो भवति । माणवक जटिलकाध्यापक क्व गमिष्यसि । क्व इति स्वरितस्तस्मिन्परभूते क्व इति अनुदात्तस्तस्य सन्वतर आदेशो भवति ॥ अपृक्त एकाल्प्रत्ययः ॥ ४१ ॥ अपृक्त इतीयं संज्ञा भवति 'एकाल् यः प्रत्ययस्तस्य । असहायवाची एक- शब्दः । स्पृशोऽनुदके क्विन् । घृतस्पृक् । भजो ण्विः । अर्धभाक् । पादभाक् । एकाल्इति किम् । दर्विः । जागुविः । प्रत्यय इति किम् । सुराः । अपृक्तप्रदेशा- वेरपृक्तस्येत्येवमादयः ॥ तत्पुरुषः समानाधिकरणः कर्मधारयः ॥ ४२ ॥ तत्पुरुष इति समासविशेषस्य संज्ञां वक्ष्यति । स तत्पुरुषः समानाधि- करणपदः कर्मधारयसंज्ञो भवति । अधिकरणशब्दोऽभिधेयवाची । समानाधि- करणः समानाभिधेयः । परमराज्यम् । उत्तमराज्यम् । कर्मधारये राज्यमित्य- न्तरपदाद्युदात्तं न भवति । पाचकवृन्दारिका । तत्पुरुष इति किम् । पाचि- काभार्यः । समानाधिकरण इति-किम् । ब्राह्मणराज्यम् । कर्मधारयप्रदेशाः कर्मधारये निष्ठेत्येवमादयः * ॥ प्रथमानिर्दिष्टं समासउपसर्जनम् ॥ ४३ ॥ प्रथमया विभक्त्या यन्निर्द्दिश्यते समासशास्त्रे तदुपसर्जनसंज्ञं भवति । समासइति समासविधायि शास्त्रं गृह्यते । वक्ष्यति द्वितीया श्रितातीतपतित- गतात्यस्तप्राप्तापन्नैरिति द्वितीयासमासे द्वितीयेत्येतत्प्रथमानिर्दिष्टं तृतीयास- मासे तृतीयेति चतुर्थीसमासे चतुर्थीति पञ्चमीसमासे पञ्चमीति षष्ठीसमासे षष्ठीति सप्तमीसमासे सप्तमीति । कष्टश्रितः । शङ्कुलाखण्डः । यूपदारु । वृकभयम् । राजपुरुषः । अक्षशौण्डः । उपसर्जनप्रदेशा 'उपसर्जनं पूर्वमित्येव- मादयः ॥ एकविभक्ति चापूर्वनिपाते ॥ ४४ ॥ एका विभक्तिर्यस्य तदिदमेकविभक्ति, समासे विधीयमाने यन्नियतविभ- क्तिकं द्वितीये संबन्धिनि बहुभिर्विभक्तिभिर्युज्यमानेऽप्येकयैव विभक्त्या युज्यते तदुपसर्जनसंज्ञं भवति अपूर्वनिपाते, पूर्वनिपातं पूर्वनिपाताख्यमुपसर्जनकार्यं वर्जयित्वा । निरादयः क्रान्ताद्यर्थे पञ्चम्या । पूर्वपदे नानाविभक्तिकेऽप्युत्तरपदं यत्पञ्चम्यन्तमेव भवति । निष्क्रान्तः कौशाम्ब्या निष्कौशाम्बिः । निष्क्रान्तं कौ-
- कर्मधारयप्रदेशाः पुंवत्कर्मधारयजातीयदेशीयेष्वित्येवमादय इति पाठान्तरम् ।