भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 418, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 418

पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा ऽयजादेशो भवति । द्वावयवावस्य, द्वयम् । द्वितयम् । त्रयम् । त्रितयम् । तयग्ग्रहणं स्थानिनि- र्देशार्थम् । अन्यथा प्रत्ययान्तरमयग्विज्ञायेत । तत्र को दोषः । त्रयी गति- रिति तयनिबन्धन ईकारो न स्यात् । प्रथमचरमतयेत्येष विधिर्न स्यात् । द्वये । द्वयाः । चकारः स्वरार्थः ॥ उभादुदात्तो नित्यम् ॥ ४४ ॥ उभशब्दात्परस्य तयपो नित्यमयजादेशो भवति स चोदात्तः । वचन- सामर्थ्यादादेरुदात्तत्वं विज्ञायते । उभशब्दो यदि लौकिकी संख्या ततः पूर्वे- णैव विहितस्य तयप आदेशविधानार्थं वचनम् । अथ न संख्या, ततो योग- विभागेन तयपं विधाय तस्य नित्यमयजादेशो विधीयते । उभये मणयः । उभये देवमनुष्याः ॥ तदस्मिन्नधिकमिति दशान्ताड्डः ॥ ४५ ॥ तदिति प्रथमासमर्थादस्मिन्निति सप्तम्यर्थे दशान्तात्प्रातिपदिकाड् डः प्रत्ययो भवति यत्तत्प्रथमासमर्थमधिकं चेत्तद्भवति । इतिकरणस्तत्त्वेष्टिवृत्त्या । एकादश अधिका अस्मिन् शते, एकादशं शतम् । एकादशं सहस्रम् । द्वादशं शतम् । द्वादशं सहस्रम् । दशान्तादिति किम् । पञ्चाधिका अस्मिन् शते । अन्तग्रहणं किम् । दशाधिका अस्मिन् शते ॥ प्रत्ययार्थेन च समानजातीये प्रकृत्यर्थे सति प्रत्यय इष्यते ॥ एकादश कार्षापणा अधिका अस्मिन् कार्षाप- णशते, एकादशं कार्षापणशतमिति । इह तु न भवति । एकादश माषा अधिका अस्मिन्कार्षापणशतमिति ॥ शतसहस्रयोश्चेष्यते ॥ इह न भवति । एकादशाधिका अस्यां विंशताविति । इतिकरणो विवक्षार्थ इत्युक्तं तत इदं सर्वं लभ्यते । कथमेकादशं शतसहस्रमिति । शतानां सहस्रं सहस्राणां वा शत- मिति शतसहस्रमित्युच्यते । तत्र शतसहस्रयोरेवेत्येव सिद्धम् ॥ अधिके समानजाताविष्टं शतसहस्रयोः । यस्य संख्या तदाधिक्ये डः कर्तव्यो मतो मम ॥ षडन्तविंशतेश्च ॥ ४६ ॥ तदस्मिन्नधिकमित्यनुवर्तते, ड इति च । षडन्तात्प्रातिपदिकाद्विंशतेश्च डः प्रत्ययो भवति तदस्मिन्नधिकमित्येतस्मिन्विषये । त्रिंशदधिका अस्मिन् शते, त्रिंशं शतम् । षड्ग्रहणे ऽन्तग्रहणं प्रत्ययग्रहणे यस्मात्स तदादेरधिका- र्थम् । एकत्रिंशं शतम् । एकचत्वारिंशं शतम् । संख्याग्रहणं च कर्तव्यम् । इह मा भूत् गोत्रिंशदधिका अस्मिन् गोशते इति । विंशतेश्च ॥ तदन्तादपीति २७

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 418, कुल 828 में से · BharatKosha