काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 444, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४४३ स्वार्थे। विधा प्रकारः सर्वक्रियाविषय एव गृह्यते। क्रियाप्रकारे वर्तमानायाः संख्याया धा प्रत्ययः। एकधा भुङ्क्ते। द्विधा गच्छति। त्रिधा। चतुर्द्धा। पञ्चधा ॥ अधिकरणविचाले च ॥ ४३ ॥ संख्याया इत्येव। अधिकरणं द्रव्यं, तस्य विचालः संख्यान्तरापादनम्। एकस्यानेकीकरणमनेकस्य वा एकीकरणम्। अधिकरणविचाले गम्यमाने संख्यायाः स्वार्थे धा प्रत्ययो भवति। एकं राशिं पञ्चधा कुरु। अष्टधा कुरु। अनेकमैकधा कुरु ॥ एकाद्धो ध्यमजन्यतरस्याम् ॥ ४४ ॥ एकशब्दात्परस्य धाप्रत्ययस्य ध्यमुञादेशो भवत्यन्यतरस्याम्। एकधा राशिं कुरु। ऐकध्यं कुरु। एकधा भुङ्क्ते। ऐकध्यं भुङ्क्ते। धाप्रकरणादेव लब्धे पुनर्द्धायग्रहणं विधार्थे विहितस्यापि यथा स्यात्। अनन्तरस्यैवैतत्प्राप्नोति ॥ द्वित्र्योश्च धमुञ् ॥ ४५ ॥ धा इत्यनुवर्तते। द्वित्र्योः संबन्धिनो धाप्रत्ययस्य विधार्थे ऽधिकरण- विचाले च विहितस्य धमुञादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुक- र्षणार्थः। द्विधा। द्वैधम्। त्रिधा। त्रैधम् ॥ धमुञन्तत्वात्स्वार्थे ऽदर्शनम् ॥ * ॥ पथि द्वैधानि संश्रयन्ते। पथि त्रैधानि संश्रयन्ते ॥ एधाञ्च ॥ ४६ ॥ द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाञ्चादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा। द्वैधम्। द्विधा। त्रेधा। त्रैधम्। त्रिधा * ॥ याप्ये पाशप् ॥ ४७ ॥ याप्यः कुत्सित उच्यते। याप्ये वर्तमानात्प्रातिपदिकात्स्वार्थे पाशप् प्रत्ययो भवति। याप्यो वैयाकरणः। कुत्सितो वैयाकरणो, वैयाकरणपाशः। याज्ञिकपाशः। यो व्याकरणशास्त्रे प्रवीणो दुःशीलस्तत्र कस्मान्न भवति। यस्य गुणस्य सद्भावाद् द्रव्ये शब्दनिवेशस्तत्कुत्सायां प्रत्ययः ॥ पूरणाद्भागे तीयादन् ॥ ४८ ॥ पूरणप्रत्ययो यस्तीयस्तदन्तात्प्रातिपदिकाद्भागे वर्तमानात्स्वार्थे ऽन् प्रत्ययो भवति। स्वरार्थं वचनम्। द्वितीयो भागः। द्वितीयः। तृतीयः। भागइति किम्। द्वितीयम्। तृतीयम्। पूरणग्रहणमुत्तरार्थम्। नह्यपूरणस्तीया ऽस्ति। मुखतीयादिरनर्थकः ॥
- वाक्यविभागो यथासंख्यनिरासार्थः। इत्यधिकं पुस्तकान्तरे।