काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 447, कुल 828 में से
संदर्भ में पढ़ें४४६ ॥ काशिका ॥ ५ ॥ ३ ॥ स्यागुणवचनत्वादजादौ न संभवतः, एवं तर्हि आदेशविधानसामर्थ्यात्तद्विषयो नियमो न प्रवर्त्तते ऽजादौ गुणवचनादेवेति । एवमुत्तरेष्वपि योगेषु विज्ञेयम् । सर्वद्रमे प्रशस्या अयमेषामतिशयेन प्रशस्यः, श्रेष्ठः । उभाविमौ प्रशस्यौ अयम- नयोरतिशयेन प्रशस्यः, श्रेयान् प्रकृत्यैकाजिति प्रकृतिभावाच्छ्रशब्दस्य टिलोप- यस्येतिलोपौ न भवतः ॥ ज्य च ॥ ६१ ॥ प्रशस्यशब्दस्य ज्य इत्ययमादेशो भवति अजाद्योः प्रत्यययोः परतः सर्वदमे प्रशस्या अयमतिशयेन प्रशस्यः, ज्येष्ठः । उभाविमौ प्रशस्यावयमनयो- रतिशयेन प्रशस्यः, अयमस्मात् ज्यायान् । ज्यादादीयस इत्याकारः ॥ वृद्धस्य च ॥ ६२ ॥ वृद्धशब्दस्य च ज्य इत्ययमादेशो भवत्यजाद्योः प्रत्यययोः परतः । तयोश्च सत्त्वं नियमाभावेन पूर्ववत् ज्ञायते । सर्वदमे वृद्धा अयमेषामतिशयेन वृद्धः, ज्येष्ठः । उभाविमौ वृद्धौ अयमनयोरतिशयेन वृद्धः, ज्यायान् । अयम- स्मात् ज्यायान् । प्रियस्थिरेत्यादिना वृद्धशब्दस्य वर्षादेशो विधीयते । वचन- सामर्थ्यात्पक्षे सोऽपि भवति । वर्षिष्ठः । वर्षीयानिति ॥ अन्तिकबाढयोर्नेदसाधौ ॥ ६३ ॥ अन्तिकबाढयोर्यथासंख्यं नेद साध इत्येतावादेशौ भवतो ऽजाद्योः परतः । तयोश्च सत्त्वं पूर्ववद्विज्ञेयम् ॥ निमित्तभूतयोर्यथासंख्यमत्र नेष्यते सर्वाणीमान्यन्तिकानि इदमेषामतिशयेन, नेदिष्ठम् । उभे इमे अन्तिके इदम- नयोरतिशयेन नेदीयः । इदमस्मान्नेदीयः । सर्वदमे बाढमधीयते । अयमस्मा- त्साधीयोधीते ॥ युवाल्पयोः कनन्यतरस्याम् ॥ ६४ ॥ युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजाद्योः परतः । तयोश्च सत्त्वं पूर्ववत् ज्ञेयम् । सर्वदमे युवानः, अयमेषामतिशयेन, कनिष्ठः । द्वाविमौ युवानौ अयमनयोरतिशयेन, कनीयान् । यविष्ठः । यवीयान् । सर्व- इमेऽल्पाः । अयमेषामतिशयेन, कनिष्ठः । उभाविमावल्पावयमनयोरतिशयेन कनीयान् । अयमस्मात्कनीयान् । अल्पिष्ठः, अल्पीयानिति वा ॥ विन्मतोर्लुक् ॥ ६५ ॥ विनो मतुपश्च लुग् भवति अजाद्योः प्रत्यययोः परतः । इदमेव वचनं ज्ञापकमजादिसद्भावस्य । सर्वद्रमे स्रग्विणः, अयमेषामतिशयेन, स्रजिष्ठः । उभाविमौ स्रग्विणौ, अयमनयोरतिशयेन, स्रजीयान् । अयमस्मात् स्रजीयान्