काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 449, कुल 828 में से
संदर्भ में पढ़ें४४८ काशिका ॥ ५ ॥ ३ ॥ अव्ययसर्वनाम्नाकच्प्राक् टेः ॥ ७१ ॥ तिङश्चेत्येव। अव्ययानां सर्वनाम्नां च प्रागिवीयेष्वर्थेष्वकच्प्रत्ययो भवति, स च प्राक् टेः, न परतः। कस्यापवादः । उच्चकैः । नीचकैः । शनकैः । सर्व- नाम्नः खल्वपि। सर्वके। विश्वके। उभयके । प्रातिपदिकात्सुप इति द्वयम- प्यनुवर्त्तते । तत्राभिधानतो व्यवस्था भवति । क्व चित्प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति। क्व चित्सुबन्तस्य । युष्माकाभिः । अस्माकाभिः । युष्माकासु । अस्माकासु । युवक्रयोः । आवकयोः । इत्यत्र प्रातिपदिकस्य । त्वयका । मयका । त्वयकि । मयकीत्यत्र सुबन्तस्य ॥ प्राकप्रकरणे तूष्णीमः काम् प्रत्ययो वक्तव्यः ॥ * ॥ स च मित्त्वादन्त्यादचः परो भवति । तूष्णीकामास्ते। तूष्णीकां [L1