काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 458, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ३ ॥ ४५७ रक्षस् । बाह्लीक । वयस् । महत् । दशार्ह । पिशाच । विशाल । वाशति । जाँवोषण । सत्वत् । वसु । पर्श्वादिः ॥ यौधेय । कौशेय । क्रोष्टेय । शौक्रेय । बौधेय । धार्त्तेय । वार्त्तेय । जाबालेय । त्रिगर्त । भरत । उशीनर । यौधेयादिः ॥ अभिजिद्विद्भृच्छालावच्छिखावच्छमीवद्दूर्णावच्छ्रु- मद्भ्यो यञ् ॥ ११८ ॥ आयुधजीविसंघादिति निवृत्तम् । अभिजिदादिभ्यो ऽणन्तेभ्यः प्राति- पदिकेभ्यः स्वार्थे यञ् प्रत्ययो भवति । अभिजितो ऽपत्यमित्यण् । तदन्ता- द्यञ् । आभिजित्यः । आभिजित्यौ । आभिजिताः । वैद्भृत्यः । वैद्भृत्यौ । वैद्भृताः । शालावत्यः । शालावत्यौ । शालावताः । शैखावत्यः । शामी- वत्यः । दौर्णावत्यः । श्रौमत्यः ॥ गोत्रप्रत्ययस्यात्राणो ग्रहणमिष्यते ॥ अभि- जितो मुहूर्तः । आभिजितः । स्थालीपाक इत्यत्र न भवति ॥ ञ्यादयस्तद्राजाः ॥ ११९ ॥ पूगाञ्ञ्यो ग्रामणीपूर्वादित्यतः प्रभृति ये प्रत्ययाः ते तद्राजसंज्ञाभवन्ति । तथा चैवोदाहृतम् । तद्राजप्रदेशाः तद्राजस्य बहुष्वित्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ पञ्चमस्याध्यायस्य तृतीयः पादः ॥ ॥ अथ पञ्चमस्याध्यायस्य चतुर्थः पादः ॥ पादशतस्य संख्यादेर्वीप्सायां वुन्लोपश्च ॥ १ ॥ पादशतान्तस्य संख्यादेः प्रातिपदिकस्य वीप्सायां द्योत्यायां वुन् प्रत्ययो भवति । तत्सन्नियोगेन चान्तस्य लोपो भवति । यस्येति लोपेनैव सिद्धेपुनर्वि- धानमनेमित्तिकार्थम् । यस्येति लोपः परनिमित्तकः । तस्य स्थानिवद्भावात्पादः पद्दिति पद्भावो न स्यात् । अस्य स्वनिमित्तिकत्वाच्च स्थानिवत्त्वम् । द्वौद्वौ पादौ ददाति, द्विपदिकां ददाति । द्वे द्वे शते ददाति, द्विशतिकां ददाति । तद्धि- तार्थेति समासः । ततः प्रत्ययः । स्वभावाच्च वुन्प्रत्ययान्तं स्त्रियामेव वर्तते । पादशतस्येति किम् । द्वौद्वौ माषौ ददाति । संख्यादेरिति किम् । पादंपादं ददाति । वीप्सायामिति किम् । द्वौपादौ ददाति । द्वे शते ददाति । पाद- शतग्रहणमनर्थकमन्यत्रापि दर्शनात् । द्विमौदकिकां ददाति, त्रिमौदकिकां ददाति ॥ दण्डव्यवसर्गयोश्च ॥ २ ॥