भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 473, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 473

४७२ ॥ काशिका ॥ ५ ॥ ४ ॥ संख्याव्ययाव्यासन्नेति यो बहुव्रीहिस्तस्येदं ग्रहणम् । उपदशाः । उपविंशाः । उपत्रिंशाः । आसन्नदशाः । अदूरदशाः । अधिकदशाः । द्विचाः । पञ्चषाः । पञ्चदशाः । संख्येयेति किम् । चित्रगुः । शबलगुः । अबहुगणादिति किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ डच्प्रकरणे संख्यायास्त्युहचस्यो- पसंख्यानं कर्तव्यं निस्त्रिंशाद्यर्थम् ॥ * ॥ निर्गतानि त्रिंशतः, निस्त्रिंशानि वर्षा- णि देवदत्तस्य । निश्चत्वारिंशानि यज्ञदत्तस्य । निर्गतस्त्रिंशताङ्गुलिभ्यो, नि- स्त्रिंशः खङ्गः ॥ ऋक्पूरब्धूःपथामानक्षे ॥ ७४ ॥ बहुव्रीहाविति न स्वर्यते । सामान्येन विधानम् । ऋक् पुर् अप् धुर् पथिन् इत्येवमन्तानां समासानाम्कारः प्रत्ययो भवति समासान्तो ऽक्षे न । सामर्थ्यादक्ष एतद्विशेषणमृगादीनाच भवति । अक्षसंबन्धिनी या धूस्तदन्तस्य न भवति । अनृचः । बह्वृचः । अर्धर्चः । पुर् । ललाटपुरम् । नान्दीपुरम् । अप् । द्वीपम् । अन्तरीपम् । समीपम् । धुर् । राजधुरा । महाधुरा । पथिन् । जलपथः । अनक्ष इति किम् । अक्षस्य धूः, अक्षधूः । दृढधूरक्षः ॥ अनृचो माण- वके ज्ञेयो, बह्वृक्चरणाख्यायाम् ॥ अनृचो माणवकः । बह्वृचो ब्राह्मणः । अनृक् साम । *बह्वृक् सूक्तमित्यत्र न भवति ॥ अच् प्रत्यन्ववपूर्वात्सामलोम्नः ॥ ७५ ॥ प्रति अनु अव इत्येवंपूर्वात्सामान्ताल्लोमान्ताच्च समासादच् प्रत्ययो भवति । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् ॥ कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्यः स्मृतः । गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि ॥ कृष्णभूमः । पाण्डुभूमः । उदग्भूमः । पञ्चनदम् । सप्तगोदावरम् । नदीभिश्चेत्यव्ययीभावः ॥ भूमेरपि संख्यापूर्वाया अच् प्रत्यय दृश्यते ॥ द्विभूमः प्रासादः । त्रिभूमः । दशभूमकं सूत्रम् ॥ अन्यत्रापि च दृश्यते ॥ पद्मनाभः । ऊर्णनाभः । दीर्घरात्रः । समरात्रः । अरात्रः । तदेतत्सर्वमिह योगविभागं कृत्वा साधयन्ति ॥ अक्ष्णो ऽदर्शनात् ॥ ७६ ॥ अजित्यनुवर्तते । दर्शनादन्यत्र यो ऽक्षिशब्दस्तदन्तादच् प्रत्ययो भवति गवाक्षम् । पुष्कराक्षम् । उपमितं व्याघ्रादिभिरिति समासः * । । अक्ष-

  • उपमितमित्यारभ्य समास इत्यन्तोऽयमपपाठः पदमञ्जर्यां दर्शनात् ।