काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 484, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ५ । ४ ॥ ४८३ संहतपुच्छि। उभाबाहु उभयाबाहूरिति निपातनाद्विचप्रत्ययलोपः। प्रत्ययल- क्षणेनाव्ययीभावसंज्ञा ॥ प्रसंभ्यां जानुनोर्जुः ॥ १२९ ॥ प्र सम् इत्येताभ्यामुत्तरस्य जानुशब्दस्य जुरादेशो भवति समासान्तो बहुव्रीहौ। प्रकृष्टे जानुनी यस्य प्रज्ञुः। संज्ञुः ॥ ऊर्ध्वाद्विभाषा ॥ १३० ॥ ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा जुरित्ययमादेशो भवति । ऊर्ध्वे जानुनी यस्य, ऊर्ध्वजानुः। ऊर्ध्वज्ञुः ॥ ऊधसो ऽनङ् ॥ १३१ ॥ ऊधःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। कुण्डमिव ऊधो ऽस्याः, सा कुण्डोध्नी। घटोध्नी ॥ ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम् ॥ इह मा भूत्। महोधाः पर्जन्यः। घटोधो धैनुकम् ॥ धनुषश्च ॥ १३२ ॥ धनुःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति । शार्ङ्गं धनुरस्य, शार्ङ्ग- धन्वा। गाण्डीवधन्वा। पुष्पधन्वा। अधिज्यधन्वा ॥ वा संज्ञायाम् ॥ १३३ ॥ धनुःशब्दान्ताद्बहुव्रीहेरनङादेशो वा भवति संज्ञायां विषये। पूर्वेण नित्यः प्राप्तो विकल्प्यते। शतधनुः। शतधन्वा। दृढधनुः। दृढधन्वा ॥ जायाया निङ् ॥ १३४ ॥ जायाशब्दान्तस्य बहुव्रीहेर्निङादेशो भवति । युवतिर्जाया यस्य, युव- जानिः। वृद्धजानिः ॥ गन्धस्येदुत्पूतिसुसुरभिभ्यः ॥ १३५ ॥ उत् पूति सु सुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य इकारादेशो भवति समा- सान्तो बहुव्रीहौ समासे । तकार उच्चारणार्थः। उद्गतो गन्धो ऽस्य, उद्गन्धिः। पूतिगन्धिः। सुगन्धिः। सुरभिगन्धिः। एतेभ्य इति किम्। तीव्रगन्धो वातः ॥ गन्धस्येत्वे तदेकान्तग्रहणम् ॥ * ॥ तेन शोभनो गन्धो ऽस्य सुगन्ध आपणः ॥ अल्पाख्यायाम् ॥ १३६ ॥ अल्पाख्यायां यो गन्धशब्दस्तस्येकारादेशो भवति समासान्तो बहुव्रीहौ समासे । सूपे ऽल्पो ऽस्मिन्सूपगन्धि भोजनम्। अल्पमस्मिन्भोजने घृतम्, घृत- गन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः ॥