भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 493, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 493

४९२ ॥ काशिका ॥ ६ ॥ १ ॥ संप्रसारणं, तदादौ तदन्ते च न भवति कारीषगन्ध्यापुत्रकुलं कारीषगन्ध्यापर- मपुत्र इति। ष्यङन्ते यद्यप्यन्ये यणः सन्ति तथापि ष्यङ एव संप्रसारणं निर्द्दि- श्यमानस्यादेशा भवन्तीति। संप्रसारणमिति चाधिक्रियते विभाषा परेरिति यावत् ॥ बन्धुनि बहुव्रीहौ ॥ १४ ॥ ष्यङः संप्रसारणमित्यनुवर्त्तते। बन्धुशब्दउत्तरपदे बहुव्रीहौ समासे ष्यङः संप्रसारणं भवति। कारीषगन्ध्या बन्धुरस्य, कारीषगन्धीबन्धुः। कौमुदगन्धी- बन्धुः। बहुव्रीहाविति किम्। कारीषगन्ध्याया बन्धुः। कारीषगन्ध्याबन्धुः। अत्रापि पूर्ववदेव। परमकारीषगन्धीबन्धुरित्यत्र भवति। अतिकारीषगन्ध्याब- न्धुरिति च न भवति, तथा कारीषगन्ध्याबन्धुधनः कारीषगन्ध्यापरमबन्धुरिति। बन्धुनेति नपुंसकलिङ्गनिर्देशः शब्दरूपापेक्षया पुल्लिङ्गाभिधेयस्त्वयं बन्धु- शब्दः॥ मातच्मातृकमातृषु ॥ * ॥ ष्यङः संप्रसारणं भवति विभाषया बहु- व्रीहावेव। कारीषगन्ध्या माता ऽस्येत्येवं बहुव्रीहौ कृते एतस्मादेवोपसंख्यानात् पक्षे मातृशब्दस्य मातजादेशः। तत्र चित्करणसामर्थ्याद्बहुव्रीहिस्वरमन्तोदात्तत्वं बाधते। मातृमातृकशब्दयोश्च भेदेनोपादनाद् नद्यृतश्चेति कबपि विकल्प्यते। कारीषगन्धीमातः। कारीषगन्ध्यामातः। कारीषगन्धीमातृकः। कारीषगन्ध्या- मातृकः। कारीषगन्धीमाता। कारीषगन्ध्यामाता ॥ वचिस्वपियजादीनां किति ॥ १५ ॥ संप्रसारणमिति वर्त्तते। ष्यङ इति निवृत्तम्। वचि। वच परिभाषणे। ब्रुवो वचिरिति च। स्वपि। णिष्वप् शये। यजादयो, यजदेवपूजासंगतिकर- णादानेष्वित्यतः प्रभृति आ गणान्तात्। तेषां वचिस्वपियजादीनां किति प्रत्यये परतः संप्रसारणं भवति। वचि। उक्तः। उक्तवान्। स्वपि। सुप्तः। सुप्तवान्। यज। इष्टः। इष्टवान्। वप्। उप्तः। उप्तवान्। वह। ऊढः। ऊढवान्। वस। उषितः। उषितवान्। वेञ्। उतः। उतवान्। व्येञ्। संवी- तः। संवीतवान्। ह्वेञ्। हूतः। हूतवान्। वद। उदितः। उदितवान्। टुओश्वि। शूनः। शूनवान्। धातोः स्वरूपग्रहणे तत्प्रत्यये कार्ये विज्ञायते। तेनेह न भवति। वाचयति वाचिक इति ॥ ग्राहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृ- ज्जतीनां ङिति च ॥ १६ ॥ ग्रह उपादाने, ज्या वयोहानौ, वेञो वयिः, व्यध ताडने, वश कान्तौ, व्यच व्याजीकरणे, ओव्रश्चू छेदने, प्रच्छ ज्ञीप्सायां, भ्रस्ज पाके, इत्येतेषां

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 493, कुल 828 में से · BharatKosha