काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 506, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ । १ ॥ ५०५ धूवार्हा । स्पशोऽनुदके क्विन् । घृतस्पृक् । तैलस्पृक् । भजो ण्विः । चतुर्थभाक्। पादभाक् । तुरीयभाक् । अपृक्तस्येति किम् । दृद्भ्यां विन् । दर्विः । कगृशमः वाण्यध्रः किः । जागृविः ॥ • हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल् ॥ ६८ ॥ लोप इति वर्तते । तदिह लौकिकेनार्थेनार्यवत् कर्मसाधनं द्रष्टव्यम् । लुप्यतइति लोपः । हलन्ताद् ङ्यन्तादाबन्ताच्च दीर्घात्परं सु ति सि इत्येतद- पृक्तं हल् लुप्यते । हलन्तात् सुलोपः । राजा । तक्षा । उखास्रत् । पर्णध्वत् । ङ्यन्तात् । कुमारी । गौरी । शार्ङ्गरवी । आबन्तात् । खट्वा । बहुराजा । कारि- षदगन्ध्या । हलन्तादेव तिलोपः सिलोपश्च । तत्र तिलोपस्तावत् । अबिभर्भवान् । भृञो लङि तिपि श्लौ भृञामित् इत्यभ्यासस्येत्त्वम् । अजागर्भवान् । सिलोपः । अभिनोः । अच्छिनोः । दस्य रेफः । हल्ङ्याब्भ्य इति किम् । ग्रामणीः । सेना- नीः । दीर्घादिति किम् । निष्कौशाम्बिः । अतिखट्वः । सुतिसीति किम् । अभै- त्सीत् । तिपा सहचरितस्य सिश्शब्दस्य ग्रहणात्सिचो ग्रहणं नास्ति । अपृक्तमिति किम् । भिनत्ति छिनत्ति * । हलिति किम् । बिभेद । चिच्छेद । अथ किमर्थं हलन्तात्सुतिसीनां लोपो विधीयते संयोगान्तलोपेनैव सिद्धम् । न सिद्ध्यति राजा तक्षेत्यत्र संयोगान्तलोपस्यासिद्धत्वान्नलोपो न स्यात् । उखास्रत् पर्णध्व- दित्यत्रापदान्तत्वादृत्वं च न स्यात् । अभिनोरित्यत्रातो रोरप्लुतादप्लुतेत्युत्वं न स्यात् । अबिभर्भवानित्यत्र तु रात्सस्येति नियमाल्लोप एव न स्यात् ॥ संयोगान्तस्य लोपे हि नलोपादिर्न सिद्ध्यति । रान्नु तेनैव लोपः स्याद्धलस्तस्माद्विधीयते ॥ एङ्ह्रस्वात्संबुद्धेः ॥ ६९ ॥ लोप इति वर्तते, हलिति च । अपृक्तमिति नाधिक्रियते । तथा च पूर्व- सूत्रे पुनरपृक्तग्रहणं कृतम् । एङन्तात्प्रातिपदिकाद् ह्रस्वान्ताच्च परो हल्लुप्यते स चेत्संबुद्धेर्भवति । एङन्तात् । हे अग्ने । हे वायो । ह्रस्वान्तात् । हे देवदत्त । हे नदि । हे वधु । हे कुण्ड । कुण्डशब्दादतोमित्यम् । अमि पूर्वइति पूर्वत्वे कृते हल्मात्रस्य मकारस्य लोपः । हे कतरदित्यत्र हिद्वयमड्डादेशस्तत्र टिलोपे सति ह्रस्वाभावान्नास्ति संबुद्धिलोपः । एङ्ग्रहणं क्रियते संबुद्धिगुणबलीयस्त्वात् ॥ शेश्छन्दसि बहुलम् ॥ ७० ॥ शि इत्येतस्य बहुलं छन्दसि विषये लोपो भवति । या क्षेत्रा । या वना । यानि क्षेत्राणि । यानि वनानि ॥
- बिभर्तीत्याधिकमेकस्मिन्पुस्तके ।