भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 51, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 51

४४ ॥ काशिका ॥ १ ॥ ३ ॥ यन्नञ्चादेर्भोगाद्यत् । ङ चेति । स्वरितेन लिङ्गेन यथासंख्यं, यत्र नेष्यते तत्र स्वरि- तत्वं न प्रतिज्ञायते । स्वरितेनाधिकार इति स्वरितग्रहणं पूर्वेष्वपि संबध्यते ॥ स्वरितेनाधिकारः ॥ ११ ॥ स्वरितेनेति इत्थंभूतलक्षणे तृतीया । स्वरितो नाम स्वरविशेषो वर्ण- धर्मः* । तेन चिह्नेनाधिकारो वेदितव्यः । अधिकारो विनियोगः । स्वरितगु- णयुक्तं शब्दरूपमधिकृतत्वादुत्तत्रोपनिष्ठते । प्रतिज्ञास्वरिताः पाणिनीयाः । प्रत्ययः । धातोः । ङ्याप्प्रातिपदिकात् । अङ्गस्य । भस्य । पदस्य ॥ अनुदात्तङित आत्मनेपदम् ॥ १२ ॥ अविशेषेण धातोरात्मनेपदं परस्मैपदं च विधास्यते तत्रायं नियमः क्रियते अनुदात्तेतो ये धातवो ङितश्च तेभ्य एव आत्मनेपदं भवति नान्येभ्यः । अनुदा- त्तेत्तः । आस् । आस्ते । वस् । वस्ते । ङित्तः अल्पापि । सूङ् । सूते । शीङ् । शेते ॥ भावकर्मणोः ॥ १३ ॥ लः कर्मणि च भावे चाकर्मकेभ्य इति भावकर्मणोर्विहितस्य लस्य तिबादयः सामान्येन वक्ष्यन्ते तत्रेदमुच्यते । भावे कर्मणि चात्मनेपदं भवति । भावे । आस्यते भवता । सुप्यते भवता । ज्ञास्यते भवता । कर्मणि । क्रियते कटः । ह्रियते भारः । कर्मकर्त्तरि । लूयते केदारः स्वयमेवेति परस्मैपदं न भवति । तस्य विधाने द्वितीयं कर्तृग्रहणमनुवर्त्तते । तेन कत्र्तैव यः कर्त्ता तत्र परस्मैपदं भवति ॥ कर्त्तरि कर्मव्यतिहारे ॥ १४ ॥ कर्मशब्दः क्रियावाची व्यतिहारो विनिमयः । यद्यन्यसंबन्धिनीं क्रियां मन्यः करोति इतरसंबन्धिनीं चेतरः स कर्मव्यतिहारः । तद्विशिष्टक्रियावचना- द्धातोरात्मनेपदं भवति । व्यतिलुनते । व्यतिपुनते । कर्मव्यतिहार इति किम् । लुनन्ति । कर्तृग्रहणमुत्तरार्थं शेषात्कर्त्तरि परस्मैपदमिति ॥ न गतिहिंसार्थेभ्यः ॥ १५ ॥ पूर्वेणात्मनेपदं प्राप्तं प्रतिषिध्यते । गत्यर्थेभ्यो हिंसार्थेभ्यश्च धातुभ्यः कर्मव्यतिहारे आत्मनेपदं न भवति । व्यतिगच्छन्ति । व्यतिसर्पन्ति । हिंसा- र्थेभ्यः । व्यतिहिंसन्ति । व्यतिघ्नन्ति । प्रतिषेधे हसादीनामुपसंख्यानम् ॥ * ॥ व्यतिहसन्ति । व्यतिजल्पन्ति । व्यतिपठन्ति । हरतेरप्रतिषेधः ॥ * ॥ संप्रह- रन्ते राजानः ॥ इतरेतरान्योपपदाच्च ॥ १६ ॥

  • वर्णधर्मो न स्वरधर्म इति क्व चित्पाठः ।