भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 511, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 511

५१० ॥ काशिका ॥ ६ ॥ १ ॥ तृतीयासमासे ऽवर्णाद् वृद्धिर्वक्तव्या ॥ * ॥ सुखेन ऋतः, सुखार्तः । दुःखेन ऋतो, दुःखार्तः । ऋत इति किम् । सुखेन इतः सुखेतः । तृतीयेति किम् । परमर्त्तः । समासइति किम् । सुखेनर्त्तः ॥ प्रवत्सतरकम्बलवसनानामृणे वृद्धिर्वक्तव्या ॥ * ॥ प्र । प्रार्णम् । वत्सतर । वत्सतरार्णम् । कम्बल । कम्बलार्णम् । वसन । वसनार्णम् ॥ ऋणदशाभ्यां वृद्धिर्वक्तव्या ॥ * ॥ ऋणार्णम् । दशार्णम् ॥ आटश्च ॥ ९० ॥ एचीति निवृत्तम् । अचीत्यनुवर्त्तते । आटः परो यो ऽच् अचि च पूर्वो य आट् तयोः पूर्वपरयोरादचोः स्थाने वृद्धिरेकादेशो भवति । ऐतिष्ठत् । ऐधत । ऐक्षिष्यत । औभीत । आर्द्धीत् । औञ्जीत । चकारो ऽधिकविधानार्थ उस्योमा- ङोश्च पररूपबाधनार्थः । औक्षीयत् । औकारीयत् । या ऊढा वोढा, तामै- क्षत, औढीयत् ॥ उपसर्गादृति धातौ ॥ ९१ ॥ आदित्येव । अवर्णान्तादुपसर्गादृकारादौ धातौ परतः पूर्वपरयोः स्थाने वृद्धिरेकादेशो भवति । आद्गुणापवादः । उपार्च्छति । प्रार्च्छति । उपार्ध्नोति । उपसर्गादिति किम् । खट्वर्च्छति । मालर्च्छति । प्रगता ऋच्छका यस्माद्देशात्, प्रर्च्छको देशः । यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञका इति । ऋतीति किम् । उप इत, उपेतः । तपरकरणं किम् । उप ऋकारीयति । उपल्कारीयति । वा सुप्यापिशलेरिति विकल्पः स्यात् । उपसर्गग्रहणादेव धातुग्रहणे सिद्धे धातु- ग्रहणं शाकलानिवृत्त्यर्थम् । ऋत्यक इति हि शाकल्यस्य प्रकृतिभावः प्राप्नोति ॥ वा सुप्यापिशलेः ॥ ९२ ॥ आदित्येव । उपसर्गादृति धाताविति च । सुबन्तात्प्रत्यये धातावृका- रादौ परतो ऽवर्णान्तादुपसर्गात्पूर्वपरयोरापिशलेराचार्यस्य मतेन वा वृद्धिरेका- देशो भवति । उपर्षभीयति । उपार्षभीयति । उपल्कारीयति । उपाल्कारीयति । ऋकारऌकारयोः सावर्ण्यविधिरिति ऋतीति ऌकारोपि गृह्यते । आपिशलि- ग्रहणं पूजार्थम् । वेति ह्युच्यतएव ॥ औतो ऽम्शसोः ॥ ९३ ॥ ओतो ऽमि शसि च परतः पूर्वपरयोराकार आदेशो भवति । गां पश्य । गाः पश्य । द्यां पश्य । द्याः पश्य । द्योशब्दोऽप्योकारान्त एव विद्यते, ततोपि परं सर्वनामस्थानं स्विदिष्यते, तेन नाप्राप्तायां वृद्धावयमाकारो विधी- यमानस्तां बाधते । अमिति द्वितीयैकवचनं गृह्यते, शसा साहचर्यात् सुपीति चाधिकारात् । तेनाचिनवममुनवमित्यत्र न भवति ॥