काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 523, कुल 828 में से
संदर्भ में पढ़ें३२२ ॥ काशिका ॥ ६ ॥ १ ॥ अपस्कर इति निपात्यते रथाङ्गं चेद्भवति । अपपूर्वात्किरतेश्चं दोरवित्यप्, निपातनात् सुट् । अपस्करो रथावयवः । रथाङ्गमिति किम् । अपकरः ॥ विष्किरः शकुनिर्ंविकिरो वा ॥ १५० ॥ विकिर इति किरतेर्विपूर्वस्येगुपधज्ञाप्रीकिरः कः इति कप्रत्यये विहिते सुट् निपात्यते शकुनिश्चेद्भवति । विष्किरशब्दाभिधेयो वा शकुनिर्भवति । सर्वे शकुनयो भक्ष्या विष्किराः कुक्कुटादृते । विष्किरो वा शकुनाविति वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रह- णमिह तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत् ॥ ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ॥ १५१ ॥ चन्द्रशब्दउत्तरपदे ह्रस्वात्परः सुडागमो भवति मन्त्रविषये । सुश्चन्द्रो नृष्चान् । ह्रस्वादिति किम् । सूर्धाचन्द्रमसाविव । मन्त्र इति किम् । सुचन्द्रा पौर्णमासी । उत्तरपदं समासएव भवतीति प्रसिद्धं, तत इह न भवति । शुक्र- मसि चन्द्रमसि ॥ प्रतिष्कशश्च कशेः ॥ १५२ ॥ कश गतिशासनयोरित्येतस्य धातोः प्रतिपूर्वस्य पचाद्यचि कृते सुट् निपात्यते, तस्यैव षत्वम् ॥ ग्राममद्य प्रवेक्ष्यामि भव मे त्वं प्रतिष्कशः । वार्ताऽपहरः सहायः पुरोयायी वा प्रतिष्कश इत्यभिधीयते । कशेरिति किम् । प्रतिगतः कशां, प्रतिकशो ऽश्वः । अत्र यद्यपि कशेरेव कशाशब्दस्त- थापि कशेरिति धातोस्पादानं तदुपसर्गस्य प्रतेः प्रतिपत्तयर्थम् । तेन धात्वन्ता- रोपसर्गाच्च भवति ॥ प्रस्कण्वहरिश्चन्द्रावृषी ॥ १५३ ॥ प्रस्कण्वो हरिश्चन्द्र इति सुट् निपात्यते ऋषी चेदभिधेयौ भवतः । प्रस्कण्व ऋषिः । हरिश्चन्द्र ऋषिः । हरिश्चन्द्रग्रहणमन्वर्थम् । ऋषी इति किम् । प्रकण्वो देशः । हरिचन्द्रो मायाकारः ॥ मस्करमस्करिणौ वेणुपरिव्राजकयोः ॥ १५४ ॥ मस्कर मस्करिन् इत्येतौ यथासंख्यं वेणौ परिव्राजके च निपात्येते । मकरशब्दो ड्युत्पन्नं प्रातिपदिकं तस्य वेणावभिधेये सुट् निपात्यते परिव्रा- जके ण्विनिरिति । मस्करो वेणुः । मस्करी परिव्राजकः । वेणुपरिव्राजकयोरिति किम् । मकरो ग्राहः । मकरी समुद्रः । के चित्पुनरत्र माङ्युपपदे करोतेः खष्वौ