काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 538, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ २ ॥ ५३७ ॥ अथ षष्ठाध्यायस्य द्वितीयः पादः ॥ बहुव्रीहौ प्रकृत्या पूर्वपदम् ॥ १ ॥ पूर्वपदग्रहणमत्र पूर्वपदस्ये स्वरे उदात्ते स्वरिते वा वर्तते । बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेनावतिष्ठते, न विकार- मनुदात्तत्वमापद्यते । समासान्तोदात्तत्वे हि सति अनुदात्तं पदमेकवर्जमिति सो ऽनुदात्तः स्यादिति समासान्तोदात्तत्वापवादोऽयमारभ्यते । कार्ष्णाजिना- सङ्गाः । कृष्णो मृगस्तस्य विकारः कार्ष्णः । प्राणिरजतादिभ्योऽनित्यञ्प्रत्य- यान्तो ञित्स्वरेणाद्युदात्तः । यूपवलजः । यूपशब्द उणादिषु कुसुयुभ्यश्चेति पप्रत्ययान्तः । तत्र च दीर्घ इति निदिति च वर्तते तेनाद्युदात्तः । ब्रह्मचा- रिपरिकन्दः । ब्रह्मचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । स्नातक- पुत्रः । स्नातशब्दः क्तप्रत्ययान्तो नित्स्वरेणाद्युदात्तः । अध्यापकपुत्रः । लित्स्वरेणाध्यापकशब्दो मध्योदात्तः । श्रोत्रियपुत्रः । श्रोत्रियशब्दो नित्त्वादा- द्युदात्तः । मनुष्यनाथः । मनुष्यशब्दस्तित्स्वरितमिति स्वरितान्तः । उदात्तग्रहणं स्वरितग्रहणं चात्रानुवर्त्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरैष नास्तीति समासा- न्तोदात्तत्वं भवति । समभाग इति समशब्दो हि सर्वानुदात्तः ॥ तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमाना- व्ययद्वितीयाकृत्याः ॥ २ ॥ तत्पुरुषे समासे तुल्यार्थे तृतीयान्तं सप्तम्यन्तमुपमानवाचि अव्ययं द्विती- यान्तं कृत्यान्तं च यत्पूर्वपदं तत्प्रकृतिस्वरं भवति । तुल्यार्थे । तुल्यश्वेतः । तुल्यलोहितः । तुल्यमहान् । सदृक्श्वेतः । सदृग्लोहितः । सदृङ्महान् । सदृ- शश्वेतः । सदृशलोहितः । सदृशमहान् । एते कृत्यतुल्याख्या अजात्येति कर्म- धारयाः । तत्र तुल्यशब्दो यतो ऽनाव इत्याद्युदात्तः । सदृक्शब्दः । समाना- न्योश्चेति क्विन्प्रत्ययान्तः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । सदृशशब्दोपि कञन्तो मध्योदात्तः । तुल्यार्थे । तृतीया । शङ्कुलया खण्डः, शङ्कुलाखण्डः । किरिणा काणः, किरिकाणः । शङ्कुपूर्वाल्लातेर्घञर्थे कविधानमिति वा कप्रत्य- यान्तः शङ्कुलाशब्दोन्तोदात्तः । किरिशब्दोपि किरतेः कृगॄपृकटिभिदिक्विदि- भ्यश्चेतीकौरप्रत्ययः किदौणादिकस्तेनासावन्तोदात्तः । तृतीया । सप्तमी । अक्षेषु शौण्डो, ऽक्षशौण्डः । पानशौण्डः । अशेर्देवनइति । सप्रत्ययान्तोऽक्ष- शब्दोन्तोदात्तः । पानशब्दो ल्युडन्तो लित्स्वरेणाद्युदात्तः । सप्तमी । उपमान । शशप्लुतश्यामा । कुमुदश्येनी । हंसगद्गदा । न्यग्रोधपरिमण्डला । दूर्वाकाण्डश्यामा ।