काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 540, कुल 828 में से
संदर्भ में पढ़ेंभवति । विद्यादायादः । धनदायादः । संज्ञायां समजन्निषदिति विद्याशब्दः क्यप्प्रत्ययान्तः । उदात्त इति च तत्र वर्तते, तेनायमन्तोदात्तः । कॄवृञ्जिम- न्विन्निधाञ्भ्यः क्युरिति बहुलवचनात् केवलादपि धाञः क्युप्रत्ययस्तेन धन- शब्दः प्रत्ययस्वरेणाद्युदात्तः । अथ विद्यादायाद इति केन षष्ठी, स्वामीश्व- राधिपतिदायादेति । यद्येवं प्रतिपदविधाना च षष्ठी न समस्यतइति समास- प्रतिषेधः प्राप्नोति । एवं तर्हि शेषलक्षणैवात्र षष्ठी तस्यास्तु सप्तमी विधाय- माना बाधिका मा विज्ञायीति पुनरभ्यनुज्ञायते । दायाद्यामिति किम् । परम- दायादः । अत्र समासान्तोदात्तत्वमेव भवति ॥ प्रतिबन्धि चिरकृच्छ्रयोः ॥ ६ ॥ तत्पुरुषे समासे चिरकृच्छ्रयोरुत्तरपदयोः प्रतिबन्धिवाचि पूर्वपदं प्रकृति- स्वरं भवति ।