भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 543, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 543

५४२ ॥ काशिका ॥ ६ ॥ २ ॥ सुख प्रिय इत्येतयोरुत्तरपदयोर्हितवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति । गमनसुखम् । वचनसुखम् । व्याहरणसुखम् । सुख । प्रिय । गमनप्रियम् । वचनप्रियम् । व्याहरणप्रियम् । समानाधिकरणसमासा एते । तत्र सुखप्रियशब्दौ तद्धेतावायत्यां प्रीतिकरे वर्तेते । तद्धिहितं यदायत्यां प्रीतिं करोति । गमनादिषु ल्युडन्तेषु लित्स्वरः । हितइति किम् । परमसु- खम् । परमप्रियम् ॥ प्रीतौ च ॥ १६ ॥ प्रीतौ गम्यमानायां सुख प्रिय इत्येतयोरुत्तरपदयोस्तत्पुरुषे समासे पूर्व- पदं प्रकृतिस्वरं भवति । ब्राह्मणसुखं पायसम् । काष्ठप्रियो ऽनध्यायः । कन्या- प्रियो मृदङ्गः । सुखप्रियोः । प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रति- पत्त्यर्थम् । ब्राह्मणवच्चात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । कन्याशब्दः स्वरिता- न्तः । प्रीताविति किम् । राजसुखम् । राजप्रियम् ॥ स्वं स्वामिनि ॥ १७ ॥ स्वामिशब्दउत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भव- ति । गोस्वामी । अश्वस्वामी । धनस्वामी । अश्वधनगवां कथित एव स्वरः । स्वमिति किम् । परमस्वामी ॥ पत्यावैश्वर्ये ॥ १८ ॥ पतिशब्दउत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरं भवति । गृहपतिः । सेनापतिः । नरपतिः । धान्यपतिः । गेहे क इति प्रकृतिस्वरेणा- न्तोदात्तो गृहशब्दः । सह इनेन वर्ततइति बहुव्रीहौ प्रकृत्या पूर्वपदमिति सेना- शब्द आद्युदात्तः । नॄ नये एतस्माद् ऋदोरबिति अप्प्रत्ययान्त आद्युदात्तो नर- शब्दः । धान्यमन्तःस्वरितम् । ऐश्वर्यमिति किम् । ब्राह्मणो वृषलीपतिः । वृषल्या भर्तेत्यर्थः ॥ न भूवाक्चिद्दिधिषु ॥ १९ ॥ पतिशब्दउत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भू वाक् चित् दिधिषू इत्येतानि पूर्वपदानि प्रकृतिस्वराणि न भवन्ति । पूर्वेण प्राप्तः स्वरः प्रतिषि- ध्यते । भूपतिः । वाक्पतिः । चित्पतिः । दिधिषूपतिः । षष्ठीसमासा एते समा- सस्वरेणान्तोदात्ता भवन्ति ॥ वा भुवनम् ॥ २० ॥ पति शब्दउत्तरपदे ऐश्वर्यवाचिनि तत्पुरुषे समासे भुवनशब्दः पूर्वपदं वा प्रकृतिस्वरं भवति । भुवनपतिः । ३ । पूर्वपदप्रकृतिस्वरपक्षे आदिरुदात्तः ।

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 543, कुल 828 में से · BharatKosha