काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 560, कुल 828 में से
संदर्भ में पढ़ेंअर्मे चावर्णं द्व्यच्त्र्यच् ॥ ९० ॥ अर्मशब्दउत्तरपदे द्व्यच् त्र्यच् पूर्वपदमवर्णान्तमाद्युदात्तं भवति । दत्ता- र्मम् । गुप्तार्मम् । कुक्कुटार्मम् । वायसार्मम् । अवर्णमिति किम् । बृहदर्मम् । द्व्यच्त्र्यजिति किम् । कपिञ्जलार्मम् । अमहन्नवमित्येव । महार्मम् । नवार्मम् ॥ न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ ९१ ॥ भूत अधिक संजीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि चर्म- शब्दउत्तरपदे नाद्युदात्तानि भवन्ति । भूतार्मम् । अधिकार्मम् । संजीवार्मम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्राश्मार्मम् । कज्जलार्मम् । समासान्तोदात्तत्वमेवात्र भवति ॥ आद्युदात्तप्रकरणे दिवोदा- सादीनां छन्दस्युपसंख्यानम् ॥ * ॥ दिवोदासाय गायत । वध्यश्वाय दाशुषे ॥ अन्ततः ॥ ९२ ॥ अन्त इत्यधिकृतमित उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्यान्त उदात्तो भव- तीत्येवं वेदितव्यम् । वक्ष्यति सर्वं गुणकार्त्स्न्ये । सर्वश्वेतः । सर्वकृष्णः । प्रागु- त्तरपदादिरित्येतस्मादयमधिकारो वेदितव्यः ॥ सर्वं गुणकार्त्स्न्ये ॥ ९३ ॥ सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्त्तमानमन्तोदात्तं भवति । सर्वश्वेतः । सर्वकृष्णः । सर्वमहान् । सर्वमिति किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्वं श्वेतस्येति । गुणकार्त्स्न्ये वर्त्तते । गुणग्रहणं किम् । सर्वसौवर्णः । सर्वर- जतः । कार्त्स्न्य इति किम् । सर्वेषां श्वेततरः सर्वश्वेतः । गुणोत्तरेण समास- स्तरलोपश्च वक्तव्य इत्येवमत्र समासस्तरब्लोपश्च ॥ संज्ञायां गिरिनिकाययोः ॥ ९४ ॥ संज्ञायां विषये गिरि निकाय इत्येतयोरुत्तरपदयोः पूर्वपदमन्तोदात्तं भवति । अञ्जनागिरिः भञ्जनागिरिः । निकाये । शार्पिण्डिनिकायः । मौण्डिनिकायः । चिक्किल्लिनिकायः * । संज्ञायामिति किम् । परमगिरिः । ब्राह्मणनिकायः ॥ कुमार्यां वयसि ॥ ९५ ॥ कुमार्यामुत्तरपदे वयसि गम्यमाने पूर्वपदमन्तोदात्तं भवति । वृद्धकु- मारी । जरत्कुमारी । कुमारीशब्दः पुंसा सहसंप्रयोगमात्रमुपप्रयुक्तोऽवृद्धादि- भिर्वयोविशेषवचनैः समानाधिकरणो भवति । तच्च वय इह गृह्यते न कुमा- रत्वमेव । वयसीति किम् । परमकुमारी ॥
- चिक्कलिनिकायः । पा० २।