काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 563, कुल 828 में से
संदर्भ में पढ़ें५६२ ॥ काशिका ॥ ६ ॥ २ ॥ पदमन्तोदात्तं भवति । वृकोदरः । दामोदरः । हर्यश्वः । यौवनाश्वः । सुवर्च-* दृढेषुः । महेषुः ॥ क्षेपे ॥ १०८ ॥ क्षेपे गम्यमाने उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्व- पदमन्तोदात्तं भवति । कुण्डोदरः । घटोदरः । कटुकाश्वः । स्यन्दिताश्वः । अनिघातेषुः । चलाचलेषुः । अनुदरः सूदर इत्यत्र नञ्सुभ्यामित्येतद्भवति विप्र- तिषेधेन ॥ नदी बन्धुनि ॥ १०९ ॥ बहुव्रीहौ समासे बन्धूत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति । गार्गीबन्धुः । वात्सीबन्धुः । नदीति किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्यु- दात्तः । बन्धुनीति किम् । गार्गीप्रियः ॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ११० ॥ बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमन्यतरस्यामन्तोदात्तं भवति । प्रधौतमुखः । २ । प्रक्षालितपादः । २ । यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गमित्येतद्भवति न चेत्पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तर इत्ये- तद्भवति । निष्ठेति किम् । प्रसेचकमुखः । उपसर्गपूर्वमिति किम् । शुष्कमुखः ॥ उत्तरपदादिः ॥ १११ ॥ उत्तरपदादिरित्येतदधिकृतम् । यदिह ऊर्ध्वमनुक्रमिष्याम उत्तरपदस्यादिरु- दात्तो भवतीत्येवं तद्वेदितव्यम् । वक्ष्यति कर्णो वर्णलक्षणात् । शुक्लकर्णः । कृष्णकर्णः । उत्तरपदस्येत्येतदा पादपरिसमाप्तेः । आदिरिति प्रकृत्या भगालमिति यावत् ॥ कर्णो वर्णलक्षणात् ॥ ११२ ॥ [