काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 571, कुल 828 में से
संदर्भ में पढ़ें५३० ॥ काशिका ॥ ६ । २ ॥ हीतम् । विलग्नम् । प्रतिपन्नम् । प्रशिष्टम् । उद्धतम् । उपस्थितम् ॥ संहिता- ऽगवि ॥ संहिताशब्दो यदा गौरन्यस्य संज्ञा तदा ऽन्तोदात्तो न भवति । यदा तु गोः संज्ञा तदा ऽन्तोदात्त एव ॥ प्रवृद्धादीनां च ॥ १४७ ॥ प्रवृद्धादीनां च क्तान्तमुत्तरपदमन्तोदात्तं भवति । प्रवृद्धं यानम् । प्रवृद्धो वृषलः । प्रयुक्ताः सक्तवः । आकर्षे ऽवहितः । अवहितो भोगेषु । खट्वा- रूढः । कपिशस्तः । यानादीनामत्र गणे पाठः प्रायो वृत्तिप्रदर्शनार्थो न विष- यनियमार्थः । यानादिभ्योऽन्यत्रापि तेषामन्तोदात्तत्वं भवत्येव । विषयनिय- मार्थ एवेत्येके । असंज्ञार्थोयमारम्भः । आकृतिगणश्च प्रवृद्धादिर्द्रष्टव्यः । तेन पुनर्बलस्यूतं वासो देयं पुनर्निष्कृतो रथ इत्येवमादि सिद्धं भवति ॥ कारकाद्दत्तश्रुतयोरेवाशिषि ॥ १४८ ॥ संज्ञायामिति वर्तते, क्त इति च । संज्ञायां विषये आशिषि गम्यमा- नायां कारकादुत्तरयोर्दत्तश्रुतयोरेव क्तान्तयोरन्त उदात्तो भवति । देवा एनं देयासुर्देवदत्तः । विष्णुरेनं श्रूयाद् विष्णुश्रुतः । कारकादिति किम् । कारका- नियमो मा भूत् । संभूतो रामायणः । दत्तश्रुतयोरिति किम् । देवपालितः । एतस्मान्नियमादत्र संज्ञायामनाचितादीनामित्यन्तोदात्तत्वं न भवति तृतीया कर्मणीत्येवात्र भवति । एवकारकरणं किम् । कारकावधारणं यथा स्याद् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्त उदात्तो भवति । संश्रुतः । विश्रुतः । आशिषीति किम् । अनाशिषि नियमो मा भूत् । देवैः त्राता देवत्राता । कारकाद्दत्तश्रुतयोराशिष्येवेत्येवमत्र नियम इष्यते । तेना- हतो नदति देवदत्त इत्यत्र न भवति । देवदत्त इति कस्य चित् शङ्खस्य नाम । तत्र तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वमेव भवति ॥ इत्थंभूतेन कृतमिति च ॥ १४९ ॥ इमं प्रकारमापन्न इत्थंभूतः । इत्थंभूतेन कृतमित्येतस्मिन्नर्थे यः समासो वर्तते तत्र क्तान्तमुत्तरपदमन्तोदात्तं भवति । सुप्तप्रलपितम् । उन्मत्तप्रलपितम् । प्रमत्तगीतम् । विपन्नमृतम् । कृतमिति क्रियासामान्ये करोतिर्वर्तते नाभूत- प्रादुर्भावएव तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणीत्यस्यायमपवादः । भावे तु यदा प्रलपितादयस्तदा थाथादिस्वरेणैव सिद्धमन्तोदात्तं भवति ॥ ञ्नी भावकर्मवचनः ॥ १५० ॥ ञान्प्रत्ययान्तमुत्तरपदं भाववचनं कर्मवचनं च कारकात्परमन्तोदात्तं भवति । ओदनभोजनं सुखम् । पयःपानं सुखम् । चन्दनप्रियङ्गुकालेपनं सुखम् ।