काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 577, कुल 828 में से
संदर्भ में पढ़ें५०६ ॥ काशिका ॥ ६ ॥ २ ॥ अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्येत्यन्तोदात्तत्व- मिष्यते । समासान्ताश्चावयवा भवन्तीत्यनृचो बह्वृच इत्यत्र कृते समासान्ते ऽन्तोदात्तत्वं भवति ॥ कपि पूर्वम् ॥ १७३ ॥ नञ्सुभ्यां कपि परतः पूर्वमन्तोदात्तं भवति । अकुमारीको देशः । अवृ- षलीकः । अब्रह्मबन्धुकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धुकः ॥ ह्रस्वान्ते ऽन्त्यात्पूर्वम् ॥ १७४ ॥ ह्रस्वो ऽन्तो यस्य तदिदं ह्रस्वान्तमुत्तरपदं समासो वा, तत्रान्त्यात्पूर्व- मुदात्तं भवति कपि परतो नञ्सुभ्यां परं बहुव्रीहौ समासे । अयवको देशः । अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः । सुमाषकः । पूर्वमिति वर्त्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम् । ह्रस्वान्तेन्त्यादेव पूर्वमुदात्तं भवति न कपि पूर्वमिति । तेनाब्जकः सुब्जक इत्यत्र कबन्तस्यैवान्तोदात्तत्वं भवति ॥ बहोर्नञ्वदुत्तरपदभूम्नि ॥ १७५ ॥ उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्त्तते तस्मान्नञ्वत् स्वरो भवति । नञ्सुभ्यामित्युक्तम् । बहोरपि तथा भवति । बहुयवो देशः । बहुव्रीहिः । बहुतिलः । कपि पूर्वमित्युक्तं बहोरपि तथा भवति । बहुकुमारीको देशः । बहुवृषलीकः । बहुब्रह्मबन्धुकः । ह्रस्वान्तेन्त्यात्पूर्वमित्युक्तं बहोरपि तथा भवति । बहुयवको देशः । बहुव्रीहिकः । बहुमाषकः । नञो जरमरमित्रमृता इत्युक्तं बहोरपि तथा भवति । बहुजरः । बहुमरः । बहुमित्रः । बहुमृतः । उत्तरपदभूम्नीति किम् । बहुषु मनो ऽस्य बहुमना अयम् ॥ न गुणादयो ऽवयवाः ॥ १७६ ॥ गुणादयो ऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ता भवन्ति । बहुगुणा रज्जुः । बहुत्तरं पदम् । बहुच्छन्दो मानम् । बहुसूक्तः । बहुऋचः । गुणादिराकृतिगणो द्रष्टव्यः । अवयवा इति किम् । बहुगुणो ब्राह्मणः । अध्ययनश्रुतसदाचारादयो ऽत्र गुणाः ॥ उपसर्गात् स्वाङ्गं ध्रुवमपर्शु ॥ १७७ ॥ उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितमन्तोदात्तं भवति बहुव्रीहौ समासे । प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवमित्येकरूपमुच्यते । ध्रुवमस्य शीतमिति यथा । सततं यस्य प्रगतं पृष्ठं भवति स प्रपृष्ठः । उपसर्गादिति किम् । दर्श- नीयललाटः । स्वाङ्गमिति किम् । प्रहस्तो हयः । ध्रुवमिति किम् । उद्बाहुः क्रोशति । अपर्श्विति किम् । उत्पर्शुः । विपर्शुः ॥