काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 581, कुल 828 में से
संदर्भ में पढ़ें५८० ॥ काशिका ॥ ६ । २ ॥ सुशब्दोऽत्र पूजायामेव । वाक्यार्थस्तु अवक्षेपमसूयया तथाभिधानात् । सोरिति किम् । कुब्राह्मणः । अवक्षेपग्रहणं किम् । शोभनेषु तृणेषु सुतृणेषु ॥ विभाषोत्पुच्छे ॥ १६६ ॥ उत्पुच्छशब्दे तत्पुरुषे विभाषा ऽन्त उदात्तो भवति । उत्क्रान्तः पुच्छाद्, उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति उत्पुच्छयतेर्वा उत्पु- च्छस्तदा थाथादिसूत्रेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्र विभाषा भवति । तत्पुरुष इत्येव । उदस्तं पुच्छमस्य, उत्पुच्छः ॥ द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ १६७ ॥ द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्द्धन् इत्येवमुत्तरपदेषु यो बहुव्री- हिस्तत्र विभाषा ऽन्त उदात्तो भवति । द्वौ पादाव