काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 584, कुल 828 में से
संदर्भ में पढ़ेंद्विका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेण्यन्ते। कारनाम्न्येव प्राचामेव हलादावेवेति। कार- नाम्नीति किम्। आभ्यर्हिते पशुः, आभ्यर्हितपशुः। कारादन्यस्यैतद्धेयस्य नाम। प्राचामिति किम्। यूथेपशुः, यूथपशुः। हलादाविति किम्। अविकटे उरभ्रः, अविकटोरभ्रः। हलदन्तादित्येव। नद्यां दोहनी, नदीदोहनी ॥ मध्याद्गुरौ ॥ ११ ॥ मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदे ऽलुग्भवति। मध्येगुरुः ॥ अन्ता- च्वेति वक्तव्यम् ॥ * ॥ अन्तेगुरुः। सप्तमीति योगविभागात्समासः ॥ अमूर्द्धमस्तकात् स्वाङ्गादकामे ॥ १२ ॥ मूर्द्धमस्तकवर्जितात्स्वाङ्गादुत्तरस्याः सप्तम्या अकामउत्तरपदे ऽलुग्भवति। कण्ठे कालोस्य, कण्ठेकालः। उरसिलोमा। उदरेरोमाः। अमूर्द्धमस्तकादिति किम्। मूर्द्धिशिखः। मस्तकशिखः। अकामइति किम्। मुखे कामो ऽस्य, मुख- कामः। स्वाङ्गादिति किम्। आतपशौण्डः। हलदन्तादित्येव। अङ्गुलित्राणः। अङ्गुलावलेः ॥ बन्धे च विभाषा ॥ १३ ॥ बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति। हस्तेबन्धः। हस्तबन्धः। चक्रेबन्धः। चक्रबन्धः। उभयत्र विभाषेयम्। स्वाङ्गाद्वहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वा- ङ्गाच्च नेन्सिद्धबध्नातिषु चेति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव। गुप्तिबन्धः * ॥ तत्पुरुषे कृति बहुलम् ॥ १४ ॥ तत्पुरुषे समासे कृदन्तउत्तरपदे सप्तम्या बहुलमलुग्भवति। स्तम्बेरमः। कर्णेजपः। न च भवति कुरुचरो मद्रचरः ॥ प्रावृट्शरत्कालदिवां जे १५ ॥ प्रावृट् शरत् काल दिव् इत्येतेषां जउत्तरपदे सप्तम्या अलुग्भवति। प्रावृषिजाः। शरदिजः। कालेजाः। दिविजः। पूर्वस्यैवायं प्रपञ्चः ॥ विभाषावर्षचरशरवरात् ॥ १६ ॥ वर्ष चर शर वर इत्येतेभ्य उत्तरस्याः सप्तम्या जउत्तरपदे विभाषा ऽलु- ग्भवति। वर्षेजः। वर्षजः। चरेजः। चरजः। शरेजः। शरजः। वरेजः। वरजः ॥ घकालतनेषु कालनाम्नः ॥ १७ ॥
- कारिकाबन्ध इत्यधिकमेकस्मिन् पुस्तके।