भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 611, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 611

६१० ॥ काशिका ॥ ६ ॥ ४ ॥ हन्स्तेरनुनासिकस्य क्विब्झलोः क्ङितीति दीर्घत्वं यत् तदपि नियमेन बाध्यते । वृत्रहणि । भ्रूणहनीति । कथम् । योगविभागः क्रियते । इन्हन्पू- षार्यम्णाम् । सर्वनामस्थानएव दीर्घो भवति, नान्यत्रेति । ततः शाविति द्वितीयो नियमः, शावेव सर्वनामस्थाने दीर्घो भवति नान्यत्रेति । सर्वेभ्यो पधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते । यस्तु न उपधालक्षणः, स भवत्येव । वृत्रहायते । भ्रूणहायते । अथ वा ऽनुवर्त्तमानेपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः । शिशब्दो हि सर्वनामस्थानं नपुंसकस्य, न च तस्यान्यत्सर्वनामस्थानमस्तीत्यविशेषेण नियमः । तत्र तु नपुंसकस्येत्येतदा- श्रीयते । तेनानपुंसकस्यापि दीर्घो न भवति । सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोस्तीति तत्र नियमः क्रियमाणो